एतानि दशपदानि स्वीकृत्य कथानिर्माणं करणीयम्।
१. निष्णातः २. स्नातकः ३. प्रसूः ४. रेणुः ५. भ्रूकुटिः ६. धेनुः ७. चमू ८. त्रुटिः ९. रज्जुः १०. व्यक्तः
श्रीकृष्णं स्थंभे रज्ज्वा बन्धयितुम् बहुप्रयत्नं करोति माता यशोदा। किन्तु प्रयासे साफल्यं कदापि न प्राप्नोति। बालकृष्णं बन्धयितुं भवति वा। वेदवेदान्तेषु निष्णाताः ब्राह्मणाः वा स्नातकाः वा धर्मपालकाः वा सर्वशास्त्राधीतवन्तः वा सर्वे असमर्थाः एव। सः स्थाणुः अचलः सर्वव्यापी च। एकत्र भवति सर्वत्रापि भवति। कोटिचमूबलेनापि त्रुटिकालमपि तम् ग्रहीतुं असाध्यं कार्यम् अस्ति। किन्तु धेनूनां अव्यक्तशब्दाः अपि तं आकर्षयति। ताभिः अटति भ्रमति च ताः आनन्दयति गोपालः। तेषां इतस्ततः धावने बृन्दावनरेणवः भूतलात् उद्भूय प्रसार्य गोपिकानां कपोलौ संस्पृशन्ति। तथा ताः गोपिकाः सकृत् सर्वकार्याणि त्यक्त्वा गृहेभ्यः धावन्त्यः कृष्ण कृष्ण इति भजन्त्यः तासां जारस्य समीपं गच्छन्ति। मनोहरं अतुल्यसुन्दरं तं पश्यन्त्यः स्तब्धाः जाताः गोपिकाः भवेयुः। तासां भर्तारः भ्रूकुटिभिः गगनासक्तलोचनाः किंकर्तव्यतामोढाः असहायकाः सन् तिष्ठन्तः आसन्। कथं सेनाबलेन यन्न भवति विद्याबलेन यन्न भवति गोपिकाभिः कृष्णः प्राप्तः। गोपिकाप्रस्वः धन्यजीवयः यथा तासाम् पुत्र्यः परमात्मानमेव स्वहृदयेषु बन्धयन्ति स्म। काः ताः गोपिकाः।
श्रीकृष्णार्पणमस्तु।
।ॐ गोपीजनवल्लभाय नमः।
