१. लज्जा २. भयानकः ३. वीथि ४. राशिः ४. प्राणदः ५. मिथ्या ६. नौका ७. श्मश्रु ८. सार्धं ९. सुकरः १०. मैत्री
अद्य मम बहु आनन्दः वर्तते। अन्तर्जाले भगवद्गीतायाः संस्कृतेन अध्यापनानि दृश्यकानि प्राप्तवान्। अमेरिकादेशे प्रायशः भारतीयजनैः आयोजितवन्ताः कक्षाः ताः सन्ति। तत्रत्याः जनाः संस्कृतेन भगवद्गीतायाः अध्ययनं कुर्वन्तः। अस्माकं कृते अयं विषयः लज्जास्पदः एव। अत्र वयम् आङ्ग्लभाषया पठन्तः सन्ति। वयम् चिन्ताग्रस्ताः भवेम। यदि भारतीयसमाजे परिवर्तनं न भवेत् तर्हि अग्रे अस्माकम् अनुजानां संस्कृतिः का भवेत् इति। यदि अहं नेत्रे निमील्य ऊहे भयानकदृष्टयः आगच्छन्ति। कुटुम्बेषु कोलाहलाः वीथिषु द्वन्द्वानि स्त्रीपुरुषयोः परस्पपरं स्पर्धाः चेत्यादयः। गृहे गृहे वेदवेदान्तभक्तिग्रन्थानां राशयः सन्ति। किन्तु पठितुम् इच्छुकाः विरलाः। तर्हि मानवसंस्कारं कथं भवेत्।
तथापि मम निराशा नास्ति। यावत् पर्यन्तं प्राणदस्य भगवतः कृष्णस्य गीतावचनानि समाजे तिष्ठन्ति तेषां बोधनं प्रचलति तदनु आचरन्ति तावत् काले चिन्ता नास्ति। यतोहि गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं अस्ति इति जगद्गुरुणा उक्तम्। किं सत्यम् का मिथ्या इति गभीरतत्वानि आश्रित्य कथं व्यवहरणीयं नित्यजीवने इति बोधयति। गीता संसारसागरं क्रमितुम् सुदृढा नौका अस्ति। अस्याः अध्ययनं बाल्यकाले एव भवेत्। यदि जीवने किञ्चित् साधयित्वा भोगानि अनुभूय श्मश्रुधारी भूत्वा तद्पश्चात् समयः अस्ति चेत् क्वचित् क्वचित् पठिष्यामि इति निश्चयामश्चेत् तर्हि कोऽपि अस्माकं रक्षणं न कुर्याम।
भगवद्गीता पुस्तकम् समययापनार्थम् नास्ति। सा मार्गदर्शी प्राणदा आत्मज्ञानप्रदायिणी। जीवनयात्रा तया सार्धं कुर्याम। तदा सर्वकर्माणि सुकराणि एव। यतः कर्मफलानां भारं विना वयम् आचरिष्यामः। ऐक्यभावेन व्यवहरिष्यामः। भगवतः अनुग्रहपात्राणि भविष्यामः।
स्वजीवने कुटुम्बे समाजे देशे विश्वे सर्वत्रे मधुरा मैत्री चिरकालपर्यन्तम् तिष्ठेत्।
भगवद्गीतायाः संस्कृतेन अध्यापनानि दृश्यकानि। – https://youtu.be/V0nP2tI1s2A