साप्ताहिकमेलने – संस्कृतेन चर्चा – मम इष्टं स्थानम् ०५/०९/२०२१

लेखकः – मनोजः संपादकः – राजीवमहोदय।

सर्वेभ्यो नमो नमः। प्रतिसप्ताहं केचन संस्कृतानुरागिणः अन्तर्जाले मिलित्वा संस्कृतेन चर्चां कुर्वन्ति। ह्यस्तनमेलनस्य चर्चायाः सङ्क्षेपलेखनस्य उत्तरदायित्वं मया स्वीकृतम्।

सूचितः चर्चाविषयः मम इष्टं स्थानम् इति आसीत्। आहत्य सप्तजनाः मेलेने आगतवन्तः।

राजीवमहोदयः प्रार्थनया आरभ्य विषयशीर्षकं पुनः गणजनेभ्यः ज्ञापयित्वा श्वेताभगिनीं आहूतवान्।

श्वेताभगिनी – यदा मम इष्टं स्थलम् चिन्तयामि चेत् किञ्चन निश्चितं भौगोलिकस्थलं मनसि न आगच्छति। बहूनि भौगोलिकस्थानानि सन्ति यानि मह्यं रोचन्ते। तर्हि तेषां दीर्घा आवलिः भविष्यति। अहं अनेकेषु स्थलेषु उषितुम् इच्छामि। वने समुद्रतटे सुखासने कदाचित् गृहे एव अपि। यदा अहं गृहात् बहिः गच्छामि तदा मार्गः रोचते। ग्रामः रोचते। यत्र यत्र मुक्ततया स्वतन्त्रतया जीवितुं शक्नोमि तानि मम प्रियस्थानानि भवेयुः। स्थले मुक्तचिन्तनं कर्तुम् इच्छामि। कदाचित् आदिनं सुखासने उपविश्य पुस्तकपठनं कर्तुम् इच्छामि। अतः निश्चितम् स्थलम् नास्ति। यत्र मानसिकी स्वतन्त्रता वर्तते तदेव मम इष्टं स्थलम्। अनेकेषु स्तरेषु पुरुषाणाम् अपेक्षया स्त्रीणां व्यवहारेषु नियन्त्रणं वर्तते। धनिकानां शिक्षिकानां ग्रामस्थानां नगरस्थानाम् इति एवं सर्वासां महिलानां जीवने एषः अनुभवः वर्तते। तदर्थं स्थले मानसिकस्वेच्छता भवतु इति इच्छामि ।

राजीवमहोदयः श्वेताभगिन्याः निवेदनं शृत्वा भगवत्पादेन विरचितेन शिवानन्दलहरीतः एतत् पद्यं स्मृत्वा सर्वेषां कृते उच्चारितवान्।

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शम्भो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२॥ (https://sanskritdocuments.org/doc_shiva/shivaananda.html)

सुन्दरमहोदय – अग्रिमः सदस्यः आसीत् सुन्दरमहोदयः। आदौ गतवासरस्य सङ्क्षेपरूपं लिखितुम् अवसरं न प्राप्तवान् इति कारणात् गणमध्ये न प्रेषितवान् आसम् इति गणसदस्येभ्यः सूचितवान्। तदनन्तरं चर्चाविषयम् एवं स्थापितवान्।

मम कृते ग्रामीणस्थलानि यत्र न्यूना जनसङ्ख्या वर्तते तानि स्थानानि रोचन्ते। विशिष्टतया लघुनगराणि यतो हि तेषु स्थलेषु ग्रामस्य प्रशान्तता वर्तते अपि च नगरस्य सौलभ्यानि एकत्र वर्तन्ते।

पुरा विंशतेः वर्षेभ्यः पूर्वम् अहं जपान्देशं गतवान् आसीत्। तत्र क्योटोनगरतः फ्युजीपर्वतप्रदेशं प्रति गतवान्। तत्रत्यः ग्रामः बहु सुन्दरः आसीत्। मार्गे सर्वे सन्तुष्टाः जनाः आसन्। तदानीतनदर्शनं नैसर्गिकसौन्दर्यं इदानीम् अपि मम मनः आह्लादयति।

राजीवमहोदयः अत्र पीको-अय्यर-वर्यस्य वर्णनानि स्मृतवान्। अपि श्वेताभगिनी तस्याः चिन्तनं उक्तवती यत् अहमपि ग्रामं गन्तुम् इच्छामि किन्तु तत्र उषितुं कष्टकरं भवेत् । प्रायशः लघुनगर्यः सुखकर्यः भवेयुः। अत्र राजीवमहोदयेन झोहो (Zoho) इति तन्त्राशसंस्थायाः सवामिनं विचिन्त्य उक्तवान् यत् प्रारम्भतः श्रीधरवेम्बुमहोदयः ग्रामे एव स्थित्वा संस्थां चालयति। तस्यां संस्थायां अनेके उद्योगिनः अपि ग्रामेभ्यः एव कार्यं कुवन्तः सन्ति। भारते विद्यमानासु तन्त्रांशसंस्थासु अस्याः संस्थायाः वैशिष्ट्यम् एतदेव ।

मनोजवर्यः जीवने अनेकवारं मम इष्टस्थले परिवर्तनम् अभवत्। मम वयोनुसारं मम ज्ञानानुसारं परिवर्तनम् अभवत्। आदो मातुरङ्कः एव इष्टस्थलम् आसीत्। तदनन्तरं गृहं। विद्यालयात् यदा गृहम् आगच्छामि स्म तदा माता गृहे नास्ति चेत् गृहस्य प्रवेशम् अपि न करोमि स्म। तदनन्तरं अहं पुट्टपर्तिं गतवान् विद्याभ्यासार्थम्। तदा तत् स्थलं एव मम इष्टस्थलं जातम्। तदनन्तरं पुनः बेङ्गलूरुनगरम् आगतवन्। एकदा विष्णुसहस्रनामस्य भाष्यकारस्य बोधनं जयराममहोदयः अन्तर्जाले (Yvoma Labs) श्रावितवान्। तत्र एकं पदं अस्ति विश्वम्  इति। अर्थात् विश्वम् एव श्रीमहाविष्णोः विराटस्वरूपम् अस्ति इति। यत्र यत्र सः तिष्ठति तानि स्थालानि मम इष्टस्थलानि एव। यदि अहं इष्टस्थले अस्मि तर्हि आनन्दम् अनुभवामि। अहम् आनन्दं अनुभवितुम् इच्छामि। ततः सर्वाणि स्थालानि मम इष्टस्थलानि इति भावयामि चेत् अहं सदा आनन्दं अनुभवितुम् शक्नोमि।

वसुन्धराभगिनी – मम कृते मलयपर्वताः बहु रोचन्ते। तत्र स्थलद्वयं विशिष्टतया रोचते। महाबलेश्वरस्य मन्दिरं परितः नैसर्गिकसौन्दर्यं होरनाडे दर्यः च। मन्दिरं परितः अनेके पर्वताः सन्ति। सर्वासु दिक्षु मेघावृताः पर्वताः तिष्ठन्ति। एकपदं अग्रे स्थापयितुं किमपि द्रष्टुं वा अशक्यं यथा भवेत् तथा शीकराः सर्वत्र वर्तन्ते । एकवारं काञ्चननदीं तरीतुं मम पुत्रं स्कन्धे स्थापयित्वा अस्माकं मार्गदर्शकः नदीं तीर्णवान् । तद् दृश्यं मम अन्तरङ्गे बहु आनन्दं उत्पादितवती।

अमित्वर्यः विषयत्रयं स्थापयितुम् इच्छामि।

१. Asia खण्डस्य आग्नेयभागं रोचते। यतो हि तत्रत्यानां जनसङ्ख्या न्यूना अपि प्रकृतिसौन्दर्यं भूरिशः वर्तते। ते उष्णदेशाः किन्तु अहमपि उष्णदेशनिवासी इति कारणात् कष्टकरं न भवेत्।

२. मनसि यत्र स्वातन्त्रं अनुभवितुम् शक्नोमि तत्र गन्तुम् इच्छामि। वयं शृतवन्तः एव लोकः इति पदस्य प्रयोगम् । अत्र किञ्चन वैशिष्ट्यं वर्तते। इन्द्रलोकः ब्रह्मलोकः इति पदानि भवन्ति न तु इन्द्रदेशः वा ब्रह्मदेशः इति। लोकः इति पदं मानसिकस्थानं सूचयति। एतानि प्रत्यक्षस्थलानि न सन्ति।

३. ल ळ इति द्वे अक्षरे अपि वेदे भवतः। ऋग्वेदमन्त्रे अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्…. अत्र ळ अस्ति एव। प्रायशः साहित्यरचनासु ळ न दृश्यते। किन्तु वेदे अनेकस्तरेषु भवन्ति एव। अपि दाक्षिणात्यानां भाषासु ळ इति अक्षरस्य प्रयोगः सर्वत्र भवति एव।

४. अहमपि ग्रामस्थः अस्मि। लघुनगरेषु मम प्रीतिः विद्यते। किन्तु ग्रामेषु निवसितुं प्रायशः सुखकरं नास्ति। यतो हि नगरनिवासिनः तितिक्षा न्यूना शिथिला जाता। अल्पकष्टेभ्यः अपि अशान्तिम् अनुभवन्ति इति कारणात् ग्रामस्य अपेक्षया लघुनगरे जीवितुम् अपेक्षा वर्तते।

चेतनमहोदयः –  बाल्यकाले मदीयं गृहम् एव मम प्रेष्टं स्थलम् आसीत् । तत्र पूजामन्दरिम् आसीत् यत्र विविधदेवताः पूज्यन्ते स्म अस्माभिः । स्वामिनां चित्राणि अपि आसन् तस्मिन् पूजामन्दिरे । तत्रैव मम मनसि अस्माकं संस्कृतेः बीजाङ्कुरः जातः ।  यद्यपि इदानीम् अहं वेदान्ती अस्मि तथापि भगवान् कृष्णः मम इष्टं दैवतम् अस्ति । तथैव शिवः अपि । सर्वम् शिवमयम् इति अहं चिन्तयामि । यदि सर्वं शिवमयं तर्हि सर्वं सुन्दरम् एव भवितुम् अर्हति खलु !

अन्ते एकस्य काव्यश्लोकस्य उच्चारणं कृत्वा कवेः कल्पनां स्मारयित्वा राजीवमहोदयः चर्चां समापितवान्।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s