भद्रं भद्रं कृतं मौनं कोकिलैः जलदागमे। दुर्दराः यत्र गायन्ति तत्र मौनं हि शोभनम् ॥
अन्वयः – जलदागमने कोकिलैः मौनं कृतं। भद्रं भद्रम्। यत्र दुर्दराः मण्डूकाः गायन्ति तत्र मौनं हि शोभनम् अस्ति॥
कुपितानां कोलाहलमध्ये नीतिबोधनं निरर्थकम् अस्ति। अनुरक्तानां क्रन्दनमध्ये काव्यवचनं अयोग्यं कार्यम्। भूरिवृष्टिमध्ये सस्येभ्यः जलसिञ्चनं फलहीनकार्यम्। यत्र किं शोभते तदेव करणीयम्।
अद्य पर्यन्तं मम संस्कृतस्य पठनविषयं केभ्यश्चनापि न सूचितवान् आसीत्। नूतनप्रयासस्य विषयम् आदौ एव न सूचनीयम्। क्रमशः वक्तव्यम्। अतः अद्यैव मातामहीं निवेदितवान् मम संस्कृताध्ययनस्य विषयम्। सा बहु नन्दिता जाता। तस्याः मुखे मयि गर्वं दृष्टवान्। तां आनन्दयितुम् एव मया सूचितम्। सा मम बाल्यकाले अनेकाभिः ऐतिहासिककथाभिः पौराणिककथाभिः च मम हृदये संस्कृतेः बीजानि वपितवती आसीत्।
मन्त्रोच्चारणं श्लोकानाम् अध्ययनं दिनचर्यायां प्रार्थनापद्धतिः च बोध्यन्ते स्म। इदानीं तानि बीजानि एव फलानि भूत्वा माम् रक्षन्ति अनुगृह्णन्ति च।
अस्माकं पूर्वजानां आशाः साधयितुम् इच्छामि। साधयित्वा तेभ्यः तृप्तिं अनुभावयितुम् मम लक्ष्यम् अस्ति।