जीवनतत्वं हारिपाटर्वर्यस्य जीवनकथात: – ११/०९/२०२१

ह्य: गृहे श्रीगणेशस्य विसर्जनानन्तरं सर्वे उपविश्य चलनचित्रं अपश्याम । हारि पाटर् इति चलनचित्रम् । नूतनचलचित्रं नास्ति। प्रौढशालायां अपश्यम् । किन्तु बहु रोचते अत: पुन: अपश्यम् । अपि गृहे बालबालिका: अपशयन्त: आसन् ।

कथा बालकस्य हारि पाटर्वर्यस्य अस्ति । कथात: एकं अंशं अत्र विवृणोमि। एरिसेड् दर्पण:। यदा हारि तस्मिन् पश्यति स: मातापितरौ दृष्टवान् ।

प्राध्यापक: डुम्बल्डोर्वर्य: दर्पणस्य विषये एवम् उक्तवान् । दर्शकस्य निगूढकामान् प्रदर्शयति एष: विशिष्टदर्पण: । अर्थात् मनसि स्थितान् कामान् स्पष्ठीकरोति। किन्तु यस्य मनस: शान्ति: वर्तते य: आशारहित: अस्ति तं तस्य स्वरूपम् एव प्रतिबिंबरूपेण दर्शयति ।

जीवने सर्वे अप्राप्तान् कामान् प्राप्तुम् अनवरतप्रयासं कुर्वन्ति। प्रापणे नूतनकामं पुन: उद्भवति। पुन: तम् अनुसरन्ति जना:। एवं चलति जीवनस्य यात्रा ।

किन्तु सुखी सन्तुष्ट: स: यस्य आशा: तं न पीडयन्ति। शङ्कराचार्येण उक्तम् एवम् ।

अङ्गं गलितं पलितं मुण्डं दशनविहीनमं जातं तुण्डम्। वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ।

आशारहित: मानव: भारं विना जीवनयात्रायां सुखेन चलति। आशाभरित: मानव: भारं ऊढ्वा जीवनयात्रायां कष्टेन व्यवहरति ।

मूलं – https://images.app.goo.gl/482eYueeKqy59fSW7

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s