अहो नक्षत्रराजस्य साभिमानं विचेष्टितम्। परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता॥
नक्षत्रराजः कः अस्ति। आकाशे रात्रौ कः उत्कृष्टतया शोभते। शशी एव विराजते। यद्यपि अनेकानि तारकाणि सन्ति तथापि चन्द्रः एव विशिष्टतया भासते। अतः सः राजः अस्ति इति शुभाशितकारस्य मतम्।
चन्द्रस्य अभिमानं भवति। भवन्तः जानन्ति किल। अस्मिन् पक्षे चतुर्थ्यां वयम् गणेशव्रतम् आचरितवन्तः। व्रते कथाश्रवणम् अन्तर्भवति। चन्द्रः गणेशस्य मूषिकवाहनेन गमनं दृष्ट्वा हसितवान्। कुपितः विनायकः चन्द्रं शप्यति। शापग्रस्तः चन्द्रः क्षीयमाणः वर्धमानः च जातः।
कीदृशं विचेष्टितम्। क्षयणं वर्धनं च प्रतिपक्षं वारं वारम् एव तस्य विचेष्टितम् अस्ति।
यदा परिक्षीयते तदा वक्रेण दर्शयति। यदा संपूर्णमस्ति तदा वर्तुलाकारं धृत्वा आनन्दवर्धकः आह्लादकारः द्योतयति। अत्र का विशेषता वर्तते।
यदि कश्चन क्षीयमाणः कृशः निर्धनः साहाय्यार्थं शठबुद्ध्या चेष्टते चेत् जनाः तस्मिन् न विश्वसन्ति। सः पीडितः बहुकष्टेन जीवनं यापनीयम् भवति। किन्तु यदि सः साक्षात् उक्त्वा विनयतया आचरति चेत् जनानां करुणपात्रं भूत्वा कष्टतः निर्वृत्तिं प्राप्नोति।
यस्य अधिकधनं बहुधा संपदः वर्तन्ते सः अभिमानग्रस्तः दर्पेण व्यवहरति। निन्दनपात्रं भूत्वा केनचिदपि मित्रतां न प्राप्नोति। तस्मात् सर्वे दूरे तिष्ठन्ति।
किन्तु चन्द्रस्य व्यवहारः तद्वत् नास्ति। यदा कृशः क्षीणः तदा वक्रत्वं प्रदर्शयति। यदा संपूर्णं निःशेषम् अस्ति तदा आनदयति आह्लादयति। अतः तस्य चेष्टेषु वैशिष्ट्यं वर्तते।
मम दृष्टिः
तथापि चन्द्रः भाग्यवान् एव। यतोहि वक्रत्वे अपि शिवस्य माल्यं भूत्वा शोभते। पूर्णाकारे तु सर्वत्र हर्षं प्रसारयति। अतः सः सदा सुखकारः अस्ति।