अनारोग्यसूचना
गतत्रीणि दिनानि चिकित्सालये आसम्। अस्वस्थः ज्वरेन पीडितः आहारं विना औषधैः जीवितवान्। भगवतः कृपया अद्य गृहं प्रत्यागतवान्। इदानीमपि कासमानः अस्मि। दुग्धं दधि शैत्यखाद्यानि च न भोजनीयानि। उष्णजलं एव पानीयम्। वैद्येन पञ्च दिनेभ्यः औषधानि दत्तानि।
अतः नित्यलेखनाभ्यासं न अभवत्। अस्तु तर्हि। अलं मम आरोग्यचर्चया। लेखनस्य शीर्षकं प्रतिगच्छाम।
भूमिका
कथं अभवत् आर्थिकप्रपञ्चे महत् सङ्कटम्। मूलतः किमर्थम् अभवत्। लोके नैके अनुसारकाः सन्ति। योजकाः विरलाः। विमुक्तचिन्तकाः नायकाः अतिदुर्लभाः। अस्माकं नित्यजीवने अपि एवं एव व्यवहरामः। कानिचन उदाहरणानि सूचयामि।
प्रथमः सन्दर्भः
मित्रगणे एकः रात्रिभोजनार्थं किञ्चन भोजनालयं गच्छाम इति अन्यान् आह्वयति। अन्यजनाः भोजनालयस्य विषयं ज्ञातुं गूगल् मध्ये अन्वेषयन्ति। भोजनालयस्य कति अनुरक्ताः सन्ति इति ज्ञात्वा निर्णयन्ति।
द्वितीयः सन्दर्भः
किं चलनचित्रं द्रष्टव्यम्। अस्य निर्णयमपि अन्येषां अभिप्रायान् अनुसृत्य एव भवति। मित्रं वदति एतत् उत्तम् चलनचित्रम् इति अतः नूनम् द्रक्ष्यामि। वार्तापत्रिकायां अस्य चलनचित्रस्य विवरणं मह्यम् रोचते अतः पश्यामि इति काश्चन जनाः एव एवं निर्णयन्ति।
तृतीयः सन्दर्भः
कदाचित् युवकेषु बहवः श्मश्रुधारिणः पृथक् रीत्या श्मश्रु धरन्ति। किमर्थम् चेत्। विराटकोहलिमहोदयम् अनुसरन्ति।
एवं सर्वेषु विषयेषु सहजतया अनुसरणम् एव भवति। मुक्तचिन्तनं न कुर्वन्ति जनाः।
विश्वार्थिकसङ्कटं २००८ तमे संवत्सरे
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम्। गतानुगतिको लोको न लोकः पारमार्थिकः॥ (पञ्चतन्त्रतः)
एकस्य कर्म संवीक्ष्य अन्यः गर्हितं कर्म चेदपि करोति। लोकः गतानुगतिकः अस्ति। लोकः पारमार्थिकः नास्ति। कर्माचरणात् पूर्वम् कः लाभः किमर्थं करणीयम् इति चिन्तनम् भवतु। अन्ये कुर्वन्ति इति कारणात् मा कुरु। एवं बोधयति विलिखितम् सुभाषितम्।
एतत् चलनचित्रं पश्यन्ति चेत् भवन्तः अवगच्छन्ति विश्वार्थिकसङ्कटं किमर्थम् अभवत् इति।