विना वेदं विना गीतां विना रामायणीं कथाम्। विना कविं कालिदासं भारतं भारतं नहि॥
एतत् सुभाषितं ज्ञातुम् किमपि कष्टं नानुभवति। सरलया भाषया लिखितमस्ति। अत्र सुभाषितकारः चतुरः अंशान् सूचयति। ते वेदः गीता रामायणी कविः कालिदासः च सन्ति। एतान् विना भारतं भारतं न भवति इति कथयते।
किन्तु अद्यतनस्य विद्याभ्यासस्य पाठ्यक्रमे वेदाः गीता रामायणं कालिदासकृतयः न सन्त्येव। कथमेवं सञ्जातम्। किं पठनीयम् किम् न पठनीयम् इति केन निर्धारितम्। एतान् पुनः पाठ्यक्रमे आनेतुम् किङ्करणीयम्। एवं विचारः भवतु।
विद्यालयेषु एतेषां चर्चा न भवति। गृहेषु भवति वा। मातापितरौ शिशून् बोधयतः वा। तौ जानीतः वा बोधयितुम्। यावत् कालं गुरुपरम्पराज्ञानार्जनं न भवेत् तावत् पर्यन्तं भारतीयसनातनधर्मस्य मूलज्ञानसम्पादनम् न भवेत्।
कः वेदः का गीता का रामायणी कः कविः कालिदासः च।
वेदः सर्वविद्यानां सर्वशास्त्राणां मूलं अस्ति। महर्षिः वेदव्यासः तस्य विभजनं कृतवान्। ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः चेति चत्वारः वेदाः इति कथयन्ते। वेदे संहिता ब्राह्मणम् आरण्यकम् उपनिषत् इति चत्वारः विभागाः सन्ति। उपनिषदः अपरनाम वेदान्तः इत्यस्ति। आदिभौतिक-आदिदैविक-आद्यात्मिकज्ञानानि वेदे अन्तर्भवन्ति। वेदः अपौरुषेयः अनन्तः श्रुतिः इति पर्यायपदानि।
गीता एव भगवद्गीता अस्ति। श्रीकृष्णार्जुनयोः संवादः एव गीता अस्ति। एषा गीता सर्ववेदान्तसारसङ्ग्रहः अस्ति इत्युक्तमस्ति। गीतायाम् अष्टादशसु अध्यायेषु सप्तशतं श्लोकाः सन्ति। गीता महाभारते अन्तर्भवति। महाभारतमेव पञ्चमवेदः इति सुप्रसिद्धं महाकाव्यम् अस्ति। नैके विषयाः गीतायां सन्ति। केवलं तत्वविचाराः न सन्ति। नित्यजीवने आचरितुं सरलमार्गान् सूचयति। मुख्यतत्वानि कथं आचरितुम् शक्यते इति बोधयति। गीता भारतस्य माता अस्ति। ताम् अनुसरन्ति चेत् जीवनलक्ष्यं प्राप्नुयुः।
रामायणी अथवा रामायणम् अस्ति। एतत् श्रीरामस्य चरित्रम् अस्ति इति सर्वे जानन्ति। एषा काल्पनिकी कथा नास्ति। एषः इतिहासः अस्ति। महर्षिः वाल्मीकिः अस्य रचयिता। सप्तकाण्डेषु चतुर्विशतिसहस्रं श्लोकाः सन्ति। मुख्यविषयः धर्मः अस्ति। धर्मः कः कथं पालनीयं पालनेन कः लाभः इत्यादि ज्ञातुं शक्यते। धर्मो रक्षति रक्षितः इति सूक्तेः निरूपणं सम्यक्तया करोति।
कविः कालिदासः महाकविः कविकुलगुरुः अस्ति। क्रान्तदर्शी कविः मनवान् सन्मार्गे चलितुं प्रेरयति। अत्रः सुभाषितकारः कविं कालिदासं चिह्नरूपेण सूचयति। संस्कृतसाहित्यम् अपारं अस्ति। बहवः कवयः शोभन्ते। तेषु सुविख्यातः कालिदासः अस्ति। अत्र पठतु।