लोके सर्वं भवति। वयम् किं चिनुमः चेत् ते एव भवन्त्यस्माकमनुभवाः। अस्माकं परिसरे किं भवति किम् न भवति इति निर्णेतुं अस्माकं अधीने नास्ति। किन्तु किम् श्रुणोमि किम् पश्यामि किम् खादामि किम् त्यजामि इत्यादीन् निर्णयान् वयम् कर्तुमर्हामः। तत्रैव विवेकबुद्धेः अपेक्षा वर्तते। विवेकी बुद्ध्या निर्णयं करोति।
क्वचिद्वीणावाद्यम् क्वचिदपि च हाहेति रुदितम्। क्वचिद्रामा रम्या क्वचिदपि जराजर्जरतनुः। क्वचिद्विद्वत्गोष्ठी क्वचिदपि सुरामत्तकलहः। न जाने संसारे किममृतमयः किं विषमयः॥ (भर्तृहरिः)
यत् सुखं ददाति तत् श्रेयः नास्ति। यत् दुःखं जनयति तत् प्रेयः नास्ति। अत्र विवेकबुद्धिः भवितव्यः। न सुखात् लभ्यते सुखमिति बुधैः उक्तङ्किल।
यदा सपदि आनन्दं अनुभवति मानवः तदेव सुखकरमस्ति इति चिन्तयति। किन्तु अन्ततो गत्वा यः भावः मनसि तिष्ठति सः एव सत्यमस्ति। विवेचनेन तर्कणीयम् तर्कयित्वा अनुसरणीयम्।
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत।।2.14।। इति भगवद्गीतायां श्रीकृष्णः अर्जुनं बोधयति।
अनुभवानुसारं निर्णयं न करणीयम्। शास्त्रानुसारं चिन्तयित्वा पालनीयम्। अतः अस्माकम् लोकः अमृतमयः भवति वा विषमयः भवति वा इति अस्माकं हस्ते अस्ति।
अत्र गुरुणा विरचितायाः प्रार्थनायाः स्मरणं भवति। अत्र स्थापयामि।
Oh Lord, take my love and let it flow in fullness of devotion to Thee; Oh Lord, take my mind and thoughts and let them be in tune with Thee; Oh Lord, take my hands and let them work incessantly for Thee; Oh Lord, take my soul and let it be merged in one with Thee; Oh Lord, take my everything and let them be an instrument to work for Thee.