आत्मतत्वम् अच्छेद्यमस्ति। एकदा गोपालकाः नदीतटे धेनूः पालयन्तः आसन्। प्रावृट् आसीत्। सकृत् नदीप्रवाहम् अवर्धत। वेगप्रवाहः कञ्चन जलं पिबन्तं भल्लूकं नद्याम् आकर्षयत्। नदीप्रवाहेण सः भल्लूकः नायितः।
एकः गोपालकः दूरात् तम् स्थूलरूपं दृष्ट्वा कम्बलानां गुम्फः अस्ति इति अमन्यत। सः सुहृदः अवदत् “नद्यां प्रविश्य तं गुम्फं आनेष्यामि” इति उक्त्वा जले कूर्दितवान्। अज्ञानेन तं भल्लूकं श्लेषितवान्। भल्लूकः अपि तं युवकं ग्रहीतवान्। कियदपि प्रयत्नेन गोपालकः तस्मात् मोचनं न प्राप्तवान्।
तटे तिष्ठन्तः गोपालकाः आक्रन्दन्तः “प्रिय मित्र, कूर्चं त्यक्त्वा आगच्छ”। गृहीतः युवकः निमज्जन् रुदन् “मोचयितुम् इच्छामि किन्तु अशक्तः अस्मि” इति प्रार्थितवान्।
एवमेव जीवनसरिति माया नटति। किन्तु वयम् ताम् आच्छादनवस्त्रकूर्चम् इति मन्यामहे। तत् अस्मान् आनन्दयति सान्त्वयति इति मत्वा वयम् तस्मिन् वारिणि कूर्दित्वा ग्रहीतुम् प्रयतमानाः सन्ति। किन्तु तद्पश्चात् तस्मात् मुक्तिम् प्राप्तुम् असम्भवं भवति।
एषः कृत्रिमभावः मायया असृज्यत। किन्तु आत्मतत्वं निश्चयेन अनैक्यमस्ति। विशिष्टाद्वैतिनः चिरात् बोधयन्तः यत् रूपाणि अनेकानि भिन्नानि किन्तु सः पुरुषः एकः एव। अनेकत्वे एकत्वमस्ति। केवलं रूपाणि भिन्नानि इति घोषयन्तः सन्ति।
मूलं – मम गुरुणा उक्ता कथा। Chinna Katha – 1 इति आङ्ग्लभाषापुस्तकात् कथा स्वीकृता।