एका लघ्वी कथा #११ – नासिकां वस्त्रेण आच्छादितवान्।

एकदा कश्चन साधकः गुरुम् आसाद्य उपदेशाय प्रार्थितवान्। गुरुः विष्णोः मूर्तिं तस्मै दत्वा नित्यपूजाविधानमपि बोधितवान्। साधकः यथोपदेशः नित्यपूजां कुर्वन्नासीत्। एवं काश्चन मासाः अतीताः। किन्तु साधकः नित्यानुष्ठानेन अपेक्षितं पूजाफलम् अप्राप्य निराशः अभवत्।

पुनः गुरुमासाद्य तस्य दुःखस्य कारणं निवेदितवान्। गुरुः शिवस्य विग्रहं दत्वा पुनः साधनाय प्रेरितवान्। षड्मासानन्तरम् साधकः पुनः उपगुरुं आगतवान्। शिवः अपि तस्य कृते किमपि न कृतवान् इति कारणात् अन्यदेवस्य विग्रहार्थम् याचितवान्। इदानीं गुरुतः दुर्गादेव्याः प्रतिमा स्वीकृता। गृहे निष्ठतया तां प्रतिमां पूजागृहे संस्थापितवान्। तत्र कोणे हरहरी धूल्यावृतौ त्यक्तौ विग्रहौ आस्ताम्।

एकदा दुर्गापूजां कुर्वन् आसीत्। धूपसुगन्धिः तयोः हरहर्योः प्रति तन्वन् आसीत्। तयोः कृते किमर्थम् यं धूपं देव्यै अर्पयन् अस्मि इति विचिन्त्य कुपितः साधकः वस्त्रेण तयोः निर्दयोः देवयोः नासिके आच्छादितवान्। ताभ्याम् धूपः न स्वीकरणीयः इति एवं कृतवान्।

सद्यः आश्चर्यचकितः विस्मितः साधकः साक्षात् महेश्वरस्य दर्शनं प्राप्तवान्। सः तु शिवस्य निन्दनं कृतवान् आसीत्। तथापि कथं महादेवस्य दर्शनं प्राप्तं इति तस्य महाभ्रमः अभवत्।

कथम् एवं सञ्जातम्। मूर्तौ चेतनः अस्ति इति आरोपणं कृतवान्। तौ सुगन्धिं घ्रातुं शक्नुतः इति विचिन्त्य तयोः नासिकां वस्त्रेण अवरत्। यदा सः चेतनस्य भावं लक्षितवान् तदैव सः साक्षात्कारं प्राप्तवान्।

कथामूलं – Chinna Katha Part 1 – Stories and Parables by Bhagawan Sri Sathya Sai Baba.

न काष्ठे विद्यते देवो न पाषाणे न मृण्मये।
भावे हि विद्यते देवस्तस्मात् भावो हि कारणम्॥

चित्रमूलं – https://images.app.goo.gl/sjb6mtskbuEYzxsA9

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s