एका लघ्वी कथा #१० – सत्यं क्रन्दितवान्।

एकदा कश्चन यशस्वी विद्वानासीत्। सः विख्यातः वेदपण्डितः आसीत्। किन्तु तस्य धर्मः कः इति केनापि न ज्ञातः। अनेके ऊहितवन्तः यत् सः ब्राह्मणः नासीतिति। किन्तु तस्य धर्मं ज्ञातुम् अशक्यमासीत्।

कथं सन्देहं निवारयितुं शक्नोति इति कस्यचन पण्डितस्य भार्या अजानात्। विदुषः जातिं सरलतया ज्ञातुं शक्यते इति विश्वासेन उक्तवती।

तम् विद्वांसम् अतिथिसत्कारार्थं गृहम् आहूतवती। आकण्ठं भोजनं कारयित्वा विरामार्थं व्यवस्था कल्पिता आसीत्। सः पण्डितः किञ्चित् कालं निद्रितवान्। तस्मिन् समये सा तस्य पादौ अत्युष्णेन अलातेन स्पृष्टवती। सः सपदि अल्ला इति चीत्कृतवान्।

अतः सः तु महम्मदीयधर्मस्य अनुयायी इति सर्वे ज्ञातवन्तः।

केवलम् धर्मस्य प्रचारः न कर्तव्यः। पीडासु अपि तस्य अनुपालनं भवेत्। धर्मस्य आचरणं प्रधानम् अस्ति। अपि अन्येभ्यः एकं तत्वं बोधयति स्वस्य कृते अन्यं तत्वम् अनुसरति चेत् उचितं नास्ति।

मूलं – Chinna Katha Part 1 – Stories and Parables by Bhagawan Sri Sathya Sai Baba.

कथां पठित्वा भजगोविन्दतः एषः श्लोकः स्मर्यते।

जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेशः।
पश्यन्नपि न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेशः॥१४॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s