एका लध्वी कथा #१२ – वैकुण्ठं कियत् दूरमस्ति।

एकदा कश्चन पण्डितः महाराज्ञः सभायां भागवतपुराणस्य गजेन्द्रमोक्षस्य कथां वर्णयन्नासीत्। सभायां नैके विद्वासः मन्त्रिणः ज्येष्ठाः प्रजाः चाप्यासन्।

चित्रमूलं – https://images.app.goo.gl/oZHWWQJw4yxGrT8C9

मकरग्रस्तस्य निबद्धस्य पीडितस्य गजेन्द्रस्याक्रन्दनं श्रुत्वा तं मोचयितुं महाविष्णुः सर्वन्त्यक्त्वा सपद्युत्थाय तस्य रक्षणार्थं धवितवानासीत्। शस्त्राणि विस्मृत्य प्रियां लक्ष्मीम् असूचयित्वा अङ्गवस्त्रम् अधृत्वापि गरुडात् ऋते भक्तरक्षणाय त्वरमाणः वैकुण्ठतः निर्गतवान् आसीत्।

तदा प्रवचनम् अवधानेन शृण्वन् माहाराजः तस्य कौतुकं प्रकटितवान्। महा पण्डित भूलोकातः कियत् दूरमस्ति वैकुण्ठमिति पृष्टवान्।

सद्यः व्याकुलः पण्डितः अजानन् पुस्तकेषु अन्वेषणं कृतवान्। किन्तु उत्तररहितः सः तूष्णीं स्थितवान्।

महाराजः अन्यान् विपश्चितोऽपि पृष्टवान्। सभायां सर्वे महापण्डिताः मन्त्रिणः च अधोमुखाः सन् स्थितवन्तः।

महाराज्ञः पृष्ठतः कश्चन महाराजानं सेवमानः सेवकः उत्तरं वक्तुं अवसरं प्रार्थितवान्। एतत् दृष्ट्वा पण्डितः क्षुब्धः जातः। महाराजः सेवकम् आहूय उत्तरं समर्पयितुम् आज्ञापितवान्। महाप्रभो यावत् दूरं भक्तस्य गजेन्द्रस्य क्रन्दं श्रोतुं वा गन्तुं शक्यते तावत् दूरमेव वैकुण्ठमप्यस्ति इति तस्यावगतिम् सूचितवान्।

सत्यम्। देवः दूरे नास्ति। सः अतीवसमीपे अस्ति। यावत् दूरं अस्माकं आक्रन्दं प्राप्तुं शक्यते तावत् दूरमेव सः अस्ति। भक्तगणानां प्रार्थनाः श्रोतुम् सः सदा सर्वदा उद्युक्तः अस्ति।

शास्त्रेषु अज्ञानी सेवकः भगवतः सर्वव्याप्तितत्वं करुणास्वभावं सम्यक्तया प्रकटितवान्।

कथामूलं – Chinna Katha Part 1 – Stories and Parables by Bhagawan Sri Sathya Sai Baba

पठित्वा महाभक्तस्य अन्नमाचार्यस्य कृतेः स्मरणं भवति।

http://annamayya-sankirthana.blogspot.com/2015/03/vedambevvani-vethakidi.html

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s