नमो नमः सुरेशाय। प्रथमः भागः।

इन्दुशेखरः – नमो नमः सुरेशाय। भवान् कदा ग्रामम् आगतवान्।

मालतिः – हे सुरेश कियत् कालानन्तरम् आगतवान्। वयं चिन्तितवत्यः यत् भवान् अस्मान् विस्मृतवानिति। कः विशेषः। कथं पुनरागमनम्। गृहे सर्वं कुशलम् किल। तत्रत्याः जनाः कथं व्यवहरन्ति। ते किं किं खादन्ति। कानि वस्त्राणि धरन्ति। नैके कौतूहलप्रश्नाः सन्ति। कदा उपविश्य जल्पनं कर्तुं शक्नुमः।

इन्दुशेखरः – मालति। उत्तरं वक्तुं समयं ददातु। एकेन श्वासेन कति प्रश्नान् पृच्छती अस्ति। जानामि यत् त्वं तस्य आगमने बहु नन्दसि इति।

मालतिः – तिष्ठतु इन्दुमित्र। भग्नं मा कुरु। सुरेश सुरेश। मम कृते किमपि आनीतवान् वा। दर्शय शीघ्रं दर्शय। अहं जानामि यत् भवान् मम कृते नूतनां शाटिकाम् आनीतवान् इति। पीतवर्णा शाटिका किल। पीतवर्णः मह्यम् बहु रोचते। गतसप्ताहे यदा अहं गोपलस्य ग्रामं गतवती आसम् तदा अहं पीतवर्णकङ्कणानि क्रीतवती। तस्मिन् गृहे सर्वं पीतवर्णम् अस्ति। महाद्वारं वातायनं दूरदर्शनस्य पिधानं चापि।

सुरेशः – माल….

इन्दुशेखरः – मालति

मालतिः – अपि गतवर्षे यदा भवान् नगरं गतवान् आसीत्। अहं व्याकुली जाता। सदा मम अस्मितं मुखमेव आसीत्। त्वम् कदा आगमिष्यसि पुनः इति प्रतीक्षमाणा आसम्। त्वया सह पुनः कदा क्रीडिष्यामि इत्येव चिन्तनं कुर्वती आसम्।

सुरेशः – (उच्चैः) मालति

मालतिः – किमर्थं चीत्करोषि। अहम् अत्रैव अस्मि किल। मह्यम् कुप्यति वा। अस्तु तर्हि अहं निर्गच्छामि। कियत् आनन्देन अत्र आगतवती किन्तु त्वयि मित्रता एव नास्ति। एकवारम् अपि संपर्कं न कृतवान्। कुतः।

इन्दुशेखरः – (मन्दस्वरेण) मालति मालति।

मालतिः – अस्मि अस्मि। एकवारं श्रावय। बधिरा नास्मि। अत्रैव अस्मि। इन्दुमित्र भवान् अपि तस्य पक्षे अस्ति वा।

(रुदती हस्तमुखी मालतिः पार्श्वे खण्डे उपविशति)

अनुवर्तते…….

भो पाठक मालतिं दृष्ट्वा कस्य स्मरणं भवति तव जीवने। श्वः किं भविष्यति इति ऊहताम्।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s