सुरेशः – मालति मालति। पश्यतु भवत्याः कृते अहं पीतवर्णशाटिकां आनीतवान्। स्वीकुरु।
मालतिः – (आनन्देन) एवं वा। दर्शय दर्शय।
सुरेशः – (स्यूतात् स्वीकृत्य दर्शयति) पश्य। हरितवर्णाः मयूराः पाटलानि कमलानि च।
मालतिः – सुन्दरी आह्लादकरी शाटिका। क्षम्यताम्। तुभ्यम् अकुप्यम्।
(मालतिः सपदि सुरेशं श्लिष्यति।)
इन्दुशेखरः – इदानीं शान्तिः वर्तते। सदैव एवमेव। उपायनं प्राप्य मालतेः मनसः शान्तिः भवति।
मालतिः – तादृशं नास्ति। अस्तु। क्षेत्रं गच्छामः वा।
सुरेशः – तत्पूर्वं किञ्चित् मुख्यविषयं वक्तुम् इच्छामि। अल्पकाले विदेशं गमिष्यामि। तत्र नूतनकार्यं लब्धवान्। आगामि सप्ताहे एव मम गम्यम्।
इन्दुशेखरः – अद्भुतम् मित्र। अभिनन्दनानि। कः देशः।
सुरेशः – सिंहपुरं गन्तव्यम्। सोमवासरे मम प्रयाणं भवति।
मालतिः – अत्र ग्रामे कति दिनानि तिष्ठेथाः।
सुरेशः – पञ्चदिनानि।
इन्दुशेखरः – तर्हि चिन्ता नास्ति। प्रथमदिने उद्याने द्वितीयदिने मम क्षेत्रे तृतीयदिने मालतेः गृहस्य पृष्ठतः सरोवरे चतुर्थदिने पर्वते पञ्चमदिने भवतः गृहे च एवं कर्तुं शक्नुमः।
मालतिः – साधु। तर्हि अहं सेत्स्यामि। भवन्तौ अपि सेत्स्यतः।
सुरेशः – किन्तु किन्तु…….
मलतिः – किन्तु किम् मित्र ………..
(अनुवर्तते ……. )