
यदा श्रीरामः रणभूमौ उपस्थितः युद्धाय तदा अगस्त्यः ऋषिः समुपगम्य रामम् आदित्यहृदयं श्रावितवान् आसीत्।
आदित्यः भास्करः स्वप्रकाशमानः स्वतेजसा शोभते। तस्य तेजसा लोकः प्रचलति। सः सर्वशक्तिमयः। सर्वे देवदेवताः तमेव नमस्कुर्वन्ति। सः पुरातनः शाश्वतश्च। तस्य प्रकाशेन वयम् सर्वे पश्यामः लोके। तस्य तापेन वयम् सर्वे जीवामः। एवं तस्य सूर्यभगवतः माहात्म्यं वर्णयन् अगस्त्यः रामस्य मनः प्राचोदयत्।
Re-directing the mind to something positive, glorious and inspiring re-energizes the mind with a renewed sense of vigour and valour. The great seer Agastya was instrumental to direct the mind of Rama towards the most marvellous of beings in the manifested world, i.e the Bright, Evershining and Life sustaining Sun !
मनः विषयस्य स्वभावं धरति। चिन्ताग्रस्तेन मनसा पुरुषः दुर्बलः भवति। उद्विग्नं मनः चञ्चलत्वं प्रकटयति। प्रशान्तमनः समबुद्ध्या चिन्तयति। हर्षितं मनः उत्साहेन व्यवहरति। अतः कार्यारम्भात् पूर्वं मनसः स्थितिः अवलोकनीया।
युद्धपरिश्रान्तं चिन्तया स्थितम् रामं दृष्ट्वा अगस्त्यमहामुनिः आदित्यहृदयम् शृणु इति तम् प्रार्थितवान् आसीत्। येन सर्वशत्रुविनाशनं भवेत्। येन युद्धे जयं प्राप्नुयात्।
Thus Agastya becomes instrumental in re-invigorating Shri Rama for his ensuing final and mega battle with Ravana.