कश्चन राजा आसीत्। तस्य राज्यस्य सीमायां हिमाद्रयः आसन्। एकदा तस्य महतीं चमूम् नीत्वा हिमाद्रीन् उल्लङ्घ्य सः नृपः गच्छन् आसीत् सामन्तराज्यं पराजेतुम्। तदा सः कञ्चन यतिं अपश्यत्। सः यतिः नग्नः अधोमुखः खण्डे उपविष्टः आसीत्। यतिः मुखं जानुनोर्मध्ये स्थापयन् शैत्यात् रक्षणं प्राप्नुवन् अस्ति इति राजा चिन्तितवान्।
राजा तं पीडयन्तं यतिं दृष्ट्वा तस्य आवरणवस्त्रं निष्कास्य यतये समर्पयितुं सिद्धः अभवत्। यतिः जितेन्द्रियः आसीत्।
राजा – हे यते। शैत्यात् रक्षणार्थं एतत् वस्त्रं स्वीकुरु।
यतिः – मास्तु। शीतोष्णयोः स्वरक्षणार्थं यावत् वस्त्रं अपेक्षितम् तावत् भगवता दत्तम् एव। सः कृपासागरः मह्यम् सर्वम् ददाति। वस्त्रं कस्मैचन निर्धनाय दरिद्राय देहि।
राजा – ( विस्मितः सन् ) कुत्रास्ति भवतः वासः।
यतिः – भगवता निर्मितम् वस्त्रम् मम। भगवता स्यूतः वासः मम। तम् आजन्म धरन् अस्मि। मरणपर्यन्तम् धरिष्यामि।
राजा – किम् तत् वस्त्रम्।
यतिः – पश्य। मम त्वगेव (चर्मः एव) मम वस्त्रमस्ति। अतः एतम् प्रावारं भिक्षकाय देहि।
राजा – (हसन् मनसि चिन्तयति एतस्य यतेः अपेक्षया कः दरिद्रः भवितुम् अर्हति। एतस्य वासाः अपि नासन्) किन्तु कुत्र दरिद्रं भिक्षकं लभै।
यतिः – भवान् कुत्र अपि किमर्थं गच्छन् अस्ति।
राजा – शत्रुराज्यं प्रति गच्छन् अस्मि। तं राज्यम् मदीयं कर्तुम् योद्धुकामः सिद्धः अस्मि।
यतिः – (हसन्) स्वराज्येन अतृप्तः भवान् अस्ति। युद्धे स्वजीवनं सैनिकजीवान् च त्यक्तुं सिद्धः भवान् केवलम् काञ्चन भूमिं प्राप्तुम्। निश्चयेन मम अपेक्षया भवान् एव निर्धनः अस्ति। अतः वस्त्राणि स्वस्मै देहि। भवते अस्य अपेक्षा अधिकतया वर्तते।
राजा एतानि वचनानि श्रुत्वा अलज्जत। यशसः सम्पदश्च निरर्थकं ज्ञात्वा स्वराज्यम् प्रत्यागन्तुं सिद्धः अभवत्।
राजा – जीवनस्य मार्गदर्शनाय कृतज्ञतोऽस्मि। ज्ञानज्योतिः प्रकाशते।
राज्ञा अवगतम् यत् जीवने तृप्तिरेव महती सम्पदस्ति इति।
उत्तमपुरुषाः वचोभिः क्रियाभिः च विराजन्ते।
कथामूलं आङ्ग्लभाषया “Chinna Katha – 1” इति पुस्तकम्। Stories and Parables by Bhagawan Sri Sathya Sai Baba