मूलम् – https://links.sairhythms.org/UVC7

उपोद्धातः
- सर्वं खलु इदं ब्रह्म।
- विश्वं विष्णुस्वरूपम्।
- भास्करबिम्बे दीप्तं दैवम्। लोचनमध्ये सुप्तम् दैवम्। सितकरमण्डलगुप्तं दैवम्। त्रिगुणितभुवनव्याप्तम् दैवम्॥
- प्रकृतिः त्रिगुणात्मिका।
- सृष्टिस्थितिलयानां कारणं त्रिगुणमेव।
- मानवः दीर्घजीवनं आशास्ते। किन्तु दिव्यजीवनं आशासीत।
- प्रधानकर्तव्या दैवप्राप्तिः एव।
- सृष्टिकर्ता एव जानाति सृष्टिरहस्यम्।
- वैज्ञानिकाः अवगन्तुम् प्रयतन्ते। किन्तु कोऽपि संपूर्णतया अवगन्तुं न शक्नोति।
- नित्य-सत्य-निर्मलः सृष्टिकर्ता एव।
- आद्ध्यात्मिकमार्गः सृष्टिकर्तुः अवगमनम्।
- मानवत्वम् किम्। गुणातीततत्वस्य अवगमनमेव मानवत्वम् अस्ति।
- भगवान् आत्मस्वरूपः।
- सत्यं ज्ञानम् अनन्तं ब्रह्म। अपि भगवान् देवः च एतानि पर्यायपदानि।
सृष्टिक्रमः
- आत्मनः पञ्चभूतानि उद्भूतानि।
- तेषु पञ्चभूतेषु पञ्चतत्वानि अन्तर्भवन्ति।
- पञ्चभूतेभ्यः पञ्चीकृतम् अभवत्।
- त्रिगुणाः पञ्चीकृतात् आविर्भूताः।
- विश्वम् त्रिगुणानाम् आकारम् अस्ति।
- त्रिगुणाः – सत्व-रजस्-तमस्।
अन्तःकरणम्
- अन्तःकरणं किम्। पञ्चभूतानाम् समष्टिसात्विकांशात् अन्तःकरणम् जातम्।
- प्रथमः आकाशः। आकाशात् शुद्धसत्वः जातः। व्यष्टिसात्विकांशात् श्रोत्रं सञ्जातम्।
- द्वितीयः वायुः। तस्मात् त्वक्।
- तृतीयः अग्निः। तस्मात् चक्षु।
- चतुर्थं जलम्। तस्मात् रसना।
- पञ्चमी पृथिवी। तस्याः घ्राणः।
- आकाशस्य असाधारणगुणः शब्दः। श्रोत्रस्य विषयः शब्दग्रहणम्।
- वायोः स्पर्शः। त्वचः विषयः स्पर्शग्रहणम्।
- अग्नेः रूपम्। नेत्रस्य विषयः रूपग्रहणम्।
- रसनायाः विषयः रसग्रहणम्।
- नासिकायाः विषयः गन्धग्रहणम्।
- किन्तु अन्तःकरणं सर्वं अनुभवति। तस्य सम्बद्धः सर्वैः ज्ञानेन्द्रियैः सह वर्तते।
- ज्ञानेन्द्रियाणि अन्ते वा बहिः वा वर्तन्ते। उभयत्रापि वर्तन्ते।
- व्यष्टितत्वे ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च वर्तन्ते। परस्परं सम्बद्धः वर्तते।
- शब्दस्पर्शरूपरसगन्धाः सत्वगुणानां स्वरूपं अस्ति।
पञ्चप्राणाः के
- पञ्चभूतानां समष्टिरजोगुणेभ्यः पञ्चप्राणाः उद्भूताः।
- पञ्चभूतानां व्यष्टिरजोगुणात् एवं इन्द्रियाणि उद्भूतानि।
- आकाशात् वाक्।
- वायोः पाणि।
- अग्नेः पादं।
- जलात् पृथिव्याः च मलमूत्रविसर्जनाङ्गौ।
सत्वरजोगुणयोः तत्वं किम्
- सत्वगुणसम्बद्धित-इन्द्रियाणि ग्रहणं कुर्वन्ति। रजोगुणसम्बद्धित-इन्द्रियाणि विषयानां विसर्जनं विषयत्यागं कुर्वन्ति। किन्तु लोके सत्वगुणं त्यजन्ति रजोगुणं स्वीकुर्वन्ति। अत्र विरुद्धः जातः।
सत्वस्य वैशिष्ट्यम् किम्
- प्रकृतिः स्त्री इति अभिधीयते।
- स् त् री – सकारः – सात्विकांशान् स्वीकरोतु। तमोगुणः (विनम्रता, लज्जा) अभ्युपगम्येत। रकारः अन्ते भवति। कठिनसमयेषु एव रजोगुणं धारयतु।
- सत्वगुणमार्गं अनुसरतु। तस्य तेजः धरतु।
तमोगुणः – तस्य मिश्रणम्। पञ्चीकरणम्।
- उदाहरणेन उपपादयति भगवान्।
- एकत्वम् एव अनेकत्वम् भवति।
- षोडशकलाः के। पञ्च-ज्ञानेन्द्रियाणि पञ्च-कर्मेन्द्रियाणि पञ्च-भूतानि एकं मनः मिलित्वा षोडशकलाः। सर्वेषु मानवेषु एते वर्तन्ते।
- ईश्वरः सर्वभूतानाम्।
अभीष्टानि
- एकत्वे अनेकत्वस्य दर्शनं किमर्थं भवति। मूलकारणम् अस्ति अभीष्टानि।
- एतानि अपि अधिकाधिकानि अभवन्। अतः मतेः भ्रमः भवति।
- पुरुषप्रयत्नम् आवश्यकम् अस्ति। लघुमार्गे गन्तुं इच्छुकाः मानवाः। कालस्य अपेक्षा न कुर्वन्ति। सर्वथा शीघ्रमार्गे एव गन्तुम् इच्छन्ति।
- किन्तु एतत् उचितम् नास्ति। दीर्घमार्गः राजमार्गः भवति। तस्मिन् एव गन्तव्यम्।
- उदाहरणम् – स्वर्गमार्गः लघु। नरकमार्गः विशालः। किमर्थम्। यतोहि नैके नरकमार्गे प्रचलन्ति। अतः सः दीर्घः अस्ति।
लक्ष्मीदेवी भक्तः च
- धनिकः भवितुम् इच्छन् मानवः देवीतपः कृतवान् आसीत्। ……
लोकस्थितिः
- रक्तवर्णः रजोगुणः। श्वेतवर्णः सत्वगुणः। कृष्णवर्णः तमोगुणः। नेत्रे त्रयः अपि वर्तन्ते।
देवः कुत्र वर्तते
- पश्यन्नपि न च पश्यति मूढः।
- प्रकृतिः एव परमात्मस्वरूपमस्ति।
- क्रियाशीलता – प्रकृतेः स्वभावः।
- कर्तव्याचरणे सृष्टिरहस्यमस्ति।