सुभाषितम् – १३/११/२०२१

दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा। यत्र द्रव्यत्यन्तरङ्गं स स्नेह इति कथ्यते ॥

परस्परम् आनन्देन व्यवहराम। अस्माकं कर्मभिः सर्वेषाम् आनन्दं कारयाम।

सर्वदा महतः दानस्य अपेक्षा न वर्तते। लघुकार्यैः अपि जनतोषणं साधयितुम् शक्यते। सर्वथा प्रेम्णा भाषामहै। यथा पुष्पाणि किमपि अकृत्वा अपि लोकयतः तुष्यन्ति तथैव अस्माकं स्वभावः विराजेत येन समीपस्थाः मोदेरन्।

अधुनातनकाले जनाः अवधानेन न शृण्वन्ति। तेषां मनः सर्वत्र भ्रमन्ति सर्वदा। अनेन वक्तुः अवमानमेव भवति। गृहे यदा शिशवः कथाः कथयन्ति तदा पिता दूरवाणीयन्त्रे निमग्नः भवति। अतः एतत् सुभाषितम् बोधयति यत् श्रवणेन अपि अपरम् आनन्दयितुम् शक्नुमः इति।

दुःखयतः स्कन्धं स्पृशति चेत् तस्य शोकस्य निवारणे लाभाय कल्पते। स्पर्शने अपि अपूर्वा शक्तिः वर्तते। आलिङ्गने पुत्रः मातुः रक्षणं धैर्यं च लभते।

प्रेम विना एतानि शुष्ककार्याणि सन्ति। प्रेमभरितकार्याणि करणीयानि।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s