What transforms Karma into Karma Yoga ?

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥२.४७॥

अत्र मुख्यांशाः के।

१. कृष्णः पार्थं कथयति।

२. किं कथयति। त्रयः विषयाः कथ्यन्ते।

३. प्रथमः अंशः। तव अधिकारः कर्मणि एव। कदापि कर्मफलेषु अधिकारः नास्ति। कर्म कर्तुं भवतः स्वेच्छा सदा वर्तते। किमपि कर्तुं शक्नोति भवान् कदापि कर्तुं शक्नोति। कर्मणि एव भवतः अधिकारः वर्तते।

किन्तु कर्मफलेषु भवतः कोऽपि अधिकारः नास्ति। कर्मफलेषु अधिकारः ईश्वरस्य एव वर्तते। सः एव निर्णयं करोति। कदा कस्मै किं फलं दद्यात्। कस्मै कियत् फलम् अपेक्षितम् अस्ति। कस्य कर्मणः किं फलं भवेत्। कर्मफलरूपं सुखं दातव्यं वा दुःखं दातव्यम् वा। इत्यादिषु विषयेषु ईश्वरस्य एव अधिकारः वर्तते।

४. द्वितीयः अंशः। मा तव सङ्गः अस्तु अकर्मणि। कर्मफलेषु अधिकारः नास्ति इति कारणात् भवान् अकर्मणि मा तिष्ठेत्। कर्म कर्तव्यम् एव।

५. तृतीयः अंशः। मा भवतु कर्मफलहेतुः। यदि कर्मफलस्य आकाङ्क्षायाः कर्माणि आचरन्ति चेत् भवान् कर्मफलहेतुः भविष्यति। अनेन कर्मफलस्य उपभोगार्थं पुनः पुनः जन्म प्राप्य आगच्छेत्। अस्मात् लोकात् विरामं न प्राप्स्यति।

तर्हि कः मार्गः। कथं कर्म कर्तव्यम्।

अग्रिमे श्लोके कृष्णः बोधयति। – अत्र पठतु – https://www.gitasupersite.iitk.ac.in/dv/bhagavadgita/2.48

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s