सामान्यतया
पूजागृहे मूर्तेः पुरतः उपविश्य भगवन्तं दृष्ट्वा स्मृत्वा जपामः। प्रत्येकस्य नाम्नः उच्चारणे तस्य स्मरणं भवेत्। तस्य वैभवं गाम्भीर्यं सौन्दर्यं च अनुभवामः। एवमेव सहस्रनामजपः प्रचलति।
एतानि नामानि एव व्यावहारिके लोके अपि पश्यामः। मित्रस्य नाम बन्धोः नाम प्रतिवेशिनः नाम आपणिकस्य नाम राज्ञः नाम मन्त्रिणः नाम एतानि सर्वाणि नामानि अपि अधिकाधिकतया सहस्रनामस्तोत्रे अपि सन्ति। किन्तु लोकव्यवहारसमये एतेषां नाम्नाम् उच्चारणे भगवतः स्मरणं न भवति। केवलं ताम् व्यक्तिं निर्दिश्य एव वदामः अतः सा व्यक्तिः स्मर्यते।
अन्यरीत्या
पूजागृहे मूर्तेः पुरतः उपविश्य भगवतः सहस्रनामस्तोत्रस्य जपं कुर्वति लोके यस्य यस्य तदेव नाम भवति तेषां स्मरणं भवेत्। उदा – अतुलः। नामार्थः – येन सदृशः नास्ति इति। किन्तु पूजासमये मित्रस्य अतुलस्य स्मरणं भवेत्। कीदृशं स्मरणम्। मित्रः अतुलः भगवतः रूपः इति। न तु चित्रे तिष्ठति भगवान्। किन्तु प्रत्यगात्मस्वरूपः सः। यस्य एकस्य रूपस्य नाम अतुलः इति।
यदा लोके व्यवहरामः तदा नामोच्चारणे साक्षात् भगवतः तस्य तत्वस्य च ज्ञापनं भवेत्। आह्वयामि हे अतुल इति। किन्तु स्मरणं भगवतः भवेत्।
अनया रीत्या कः परिणामः
एकत्वं सिध्यति। नो चेत् सदा भगवान् तस्य स्वरूपं च एते पृथक्त्वेन मनसि तिष्ठतः। किन्तु अनया रीत्या भेदनाशः भवति। पारमार्थिकीसत्तायां तिष्ठामः। लोकः विश्वः एव तस्य स्वरूपम् इति वयं जानीमः। एतया रीत्या अस्य ज्ञानस्य अनुभवं भवेत्।
निरूपणम्
सर्वङ्खल्विदम् ब्रह्म। इशावस्यमिदं सर्वम्। इति श्रुतिवाक्यानि।
सहस्रनामसु एकः दामोदरः इति। अस्य एकः अर्थः बोध्यते शङ्कराचार्येण एवम्। दामानि लोकनामानि तानि यस्योदरान्तरे……व्यासवचनाद् वा दामोदरः इति। तस्य गर्भात् सर्वम् उत्पन्नम्। सर्वं तस्य एव। सः सर्वः।
अतः सर्वदा तस्य चिन्तनम् एव भवतु।