बेङ्गलूरुनगरात् अनतिदूरे विद्यमाने होसदोड्डि इति ग्रामे अस्य मासस्य त्रयोविंशतिदिनाके भ्रात्रा पित्रा भ्रात्रीयेन च सह अस्माकं गुरूणां जन्मदिनस्य आचरणं कृतवान्।
तत्र किमर्थं गतवन्तः वयम्। कः विशेषः। तत्र किम् अस्ति।
तस्मिन् ग्रामे मम कश्चन मित्रं ग्रामस्थेभ्यः प्राथमिकचिकित्सालयः छात्रेभ्यः विद्यालयम् अनाथेभ्यः गृहम् च चालयति। आरम्भात् दशवर्षाणि अतीतानि। तथापि एते सेवाः सर्वे निःशुल्केन दीयन्ते। तेषां विवरणं अत्र प्राप्यते – https://saikrushnacharitabletrust.org/
किन्तु कञ्चन मन्दिरं वा पुट्टपर्तीनगरी वा किमर्थं न गता। तानि तु पुण्यपवित्रस्थलानि। तथापि किमर्थम् ग्रामम् एव गतवन्तः।
यत्र स्वामिनः कार्यं प्रचलति तत्र एव तस्मिन् दिने भवामि इति निर्णीतवान् आसम्। यतो हि भगवान् निश्चयेन तद्दिने तत्र भवति इति मम दृढविश्वासः वर्तते।
तद्दिने प्रभाते आदौ भजनम् अभवत्। ततः लघु संभाषणं दत्तम्। भ्रात्रा आरतिः अर्पिता। विद्यालयछात्राः गीतं श्रावयित्वा सर्वेभ्यः प्रशंसान् प्राप्तवन्तः। उत्कृष्टगायकौ दम्पती कनकदासस्य पुरन्दरदासस्य गीतानि गीतवन्तौ। एवं प्रभातकार्यक्रमं समाप्तम् अभवत्।
ततः अनाथशिशुमन्दिरं प्रति आगतवन्तः वयम्। भोजनं खादित्वा किञ्चित् विरामं स्वीकृत्य प्रार्थनाप्रकोष्ठे उपविष्टवन्तः। तत्र गभीरा चर्चा अभवत्। विषयः आसीत् – अग्रे किम् किम् करणीयम् दीनजनेभ्यः इति। सर्वं स्वामिने समर्पणं कृत्वा ततः विरामं स्वीकृतवन्तः आसन्।
एवं वयम् गुरोः जन्मदिनस्याचरम् कृतवन्तः। गृहम् प्रत्यागत्य सायङ्काले सपादसप्तवादने मित्रैः सह पुनः भजनसमर्पणं कृतवन्तः। मित्रे मधुरगीतानि गीतवती आस्ताम्।
रात्रौ खाद्यानि खादित्वा बाल्यकालस्मारकान् विषयान् स्मृत्वा जल्पनं कृत्वा आनन्देन समयस्य यापनं अकुर्वन्।














अत्युत्तमम्। साधु चिन्तनम् आर्य। तान् अपि संस्कृताध्यनाय प्रेरयतु।
LikeLike