
अत्र पुस्तकं क्रेतुम् शक्यते – https://samskritabharati.in
ह्यः अस्य पुस्तकस्य पठनं समाप्तम्। द्विशतपुटात्मकं पुस्तकमस्ति। सरलया भाषया लिखितम् पुस्तकम् अस्ति। अस्य रचयिता श्रीमान् के एम् मुंषिवर्यः अस्ति। अनुवादिका डाँ शान्तला वर्या अस्ति।
कस्मिन् सन्दर्भे रामस्य जन्म अभवत्। तेषु दिनेषु का स्थितिः भरतवर्षे आसीत्। तस्य बाल्यकाले काः घटनाः अभवन्। तत्कालीनजनाः कथं चिन्तयेयुः। केभ्यः भीताः आसन्। धर्मपालनं कथं आसीत्। इत्यादीन् विषयान् लक्षयितुम् अर्हति।
किन्तु एतत् पुस्तकम् प्रथमः भागः एव। द्वीतीयभागस्य विषये न जानामि। कथासमाप्ते अपि रामः बालः एव। पुस्तके विद्यामानं चित्रं दृष्ट्वा भगवतः परशुरामस्य संपूर्णचरित्रं ज्ञातुं शक्नोमि इति नन्दितवान् किन्तु तावत् न ज्ञातवान् अतः किञ्चित् निराशः अस्मि।
तथापि सन्तुष्टः अस्मि यत् संस्कृतेन पुस्तकं पठितवान् अस्मि इति। अपि ऋषीणां – वसिष्ठस्य विश्वामित्रस्य भृगुमहर्षेः जमदग्नेः अगस्त्यस्य च इत्यादीनां महर्षीणां उल्लेखनं पुस्तके वर्तते। पठित्वा आनन्दितः अस्मि।
भवन्तः अपि पठन्तु इति आशासे।
Excellent.
LikeLiked by 1 person
धन्यवादा:।
LikeLike
Your email ID?
LikeLike
gadimanoj14[at]gmail[dot]com
LikeLike
किमर्थं भोः।
LikeLike