
सङ्गणकम् उद्घाटितम्। आदौ एतत् चित्रम् दृष्टम्। दृष्ट्वा विस्मितोऽभवम्।
एते के। खगाः। खे (आकाशे) गच्छन्ति अतः खगाः। द्विजाः – द्विवारं जायन्ते। आदौ अण्डरूपेण जायन्ते ततः अण्डात् उद्भवन्ति अतः द्विजाः। एवं तस्य नैकानि नामानि वर्तन्ते।
आकर्षकी चञ्चूः। कृष्णपक्षौ। श्वेतवपुः। नारङ्गवर्णपादौ। अतिसुन्दराः पक्षिणः। आकाशे उड्डयन्ते। जले तरन्ति।
किन्तु ईदृशः सुन्दरः खगः कः। कुत्र निवसति।