एका लघ्वी कथा #१५ – अन्नात् शीलम्।

Source: Chinna Katha Part 1 – Stories and Parables by Bhagawan Sri Sathya Sai Baba.

अनुवादकः – संस्कृतच्छात्रः मनोजः सम्पादकः – श्रीमान् राजीवः

पाचकात् अपि भोजनपदार्थेषु सूक्ष्मभावाः प्रविशन्ति। पुनः ये खादन्ति ते अपि एतान् सूक्ष्मभावान् प्राप्नुवन्ति। शीलस्य आधारः अन्नम् अस्ति। शरीरम् मनस्स्थितिं आकारयति।

अशीतेः वर्षेभ्यः प्राक् घटितां कथाम् इदानीम् वदामि।

एकः प्रसिद्धः योगी हंसराजः इति न्यवसत् बदरीनाथक्षेत्रे। सः सदा भगवतः सङ्कीर्तने निमग्नः आसीत्। तस्य कश्चन श्रद्धावान् युवकः शिष्यः अपि आसीत्। केनचन दुःस्वप्नेन अयं युवकः नितरां  बाधितः आसीत्। तस्य दुःस्वप्नः एवम् आसीत्।

काचन षोडशवर्षीया अतिसुन्दरी बालिका रुदती उच्चैः क्रन्दन्ती प्रार्थयन्ती आसीत् “मां रक्षितुं कोऽपि नास्ति वा”।

तस्याः सुन्दरम् आकारं वा तस्याः क्रन्दनं वा द्वयमपि तस्य मनसः अपगमयितुं सः युवकः असमर्थः आसीत्। चित्रद्वयमपि तस्य मनसि सदा प्रकटयत् आसीत्।

अतः गुरुं हंसराजं प्रति उपगम्य सर्वं तस्मै निवेदितवान् आसीत्।

हंसराजः तु सुविवेकी आसीत्। यथा हंसः जलमिश्रितदुग्धात् जलं दुग्धं च पृथक् कर्तुं अर्हति तथैव हंसराजः अपि विवेकबुद्ध्या शिष्यस्य समस्यां परिहृतवान्।

तं शिष्यम् एवं क्रमशः पृष्टवान्।

“आदौ किम् अभवत् ?” “प्रथमदिने किम् अभवत् ?” “भवान् किं खादितवान् ?” “भवान् कुत्र खादितवान् ?” “स्वप्नः कदा आगच्छत् ?” 

इत्यादीन् प्रश्नान् पृष्टवान् आसीत्। ततः ज्ञातवान् यत् सः युवकः मित्रेण सह कस्मिंश्चन महोत्सवे पूरिकाः रोटिकाः च खादितवान् आसीत् इति। तत्रत्यपाकः केनचन अकिञ्चनेन ब्राह्मणेन कृतः आसीत्।

सः ब्राह्मणः कैः कैः पक्तवान् आसीत् अपि किमर्थं उत्सवम् आयोजितवान् आसीत् इति ज्ञातुं गुरुः शिष्यम् अन्वेषणाय प्रेषितवान् आसीत्। अनेन प्रयाणेन किं प्रयोजनं भवेत् एतत् तु निरर्थकं कार्यमस्ति इति चिन्तयित्वा एव शिष्यः प्रस्तावनां कृतवान्।

तत्र गत्वा सर्वं परीक्ष्य शिष्यः एवं ज्ञातवान्।

पाकाय धनं ब्राह्मणेन कस्माच्चित् षष्टिवर्षीयऋणदातु: प्राप्तम् आसीत्। कश्चन अन्यः ब्राह्मणः तस्य कन्यां तस्मै ऋणदात्रे दत्त्वा दशसहस्ररूप्यकाणि प्राप्तवान् आसीत्। इदानीं ऋणदातृवशे विद्यमाना सा त्यक्ता कन्या दयायै करुणायै सदा प्रार्थयन्ती क्रन्दन्ती आसीत् ” कोऽपि नास्ति वा माम् रक्षितुम् ?”।

एवं हंसराजः शिष्याय अन्नस्य प्रभावः कीदृशः भवेत् इति निरूपितवान्। अतः भोजनात् पूर्वम् अन्नस्य मूलं किम् किमर्थम् अन्नं पक्तम् इति सर्वं ज्ञात्वा एव खादनीयम्। अन्नं प्रदानम् अस्ति। 


अन्नात् पुरुषः इति श्रुतिवाक्यं वर्तते। अतः भोजनात् पूर्वं सर्वं देवाय समर्प्य प्रसादभावेन खादनीयम्। 

भगवद्गीतातः श्लोकद्वयं चित्त्वा अस्मद्गुरुणा भोजनप्रार्थना उपदिष्टा। तौ श्लोकौ स्तः।

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।।

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।15.14।।

प्रथमः श्लोकः चतुर्थोऽध्यायतः अस्ति। भोक्ता भोजनम् भोजनकार्यं च सर्वं ब्रह्म अस्ति इति बोधयति।

द्वीतीयः श्लोकः पञ्चादशोऽध्यायतः स्वीकृतः। सर्वं ब्रह्ममयम् अस्ति। तर्हि अहं कः। अपि किं कुर्वन्नस्मि। अस्य प्रश्नस्य उत्तरम् प्रकटयति। 

अहं वैश्वानरः भविष्यामि। कीदृशः वैश्वानरः। देहमाश्रितः। पुनः कीदृशः देहमाश्रितः अस्मि। प्राण-अपान-समायुक्तः। एवं भूत्वा किं करोमि।

पचामि। किं पचामि। अन्नम् पचामि। कीदृशम् अन्नम् पचामि। चतुर्विधम् अन्नम् पचामि। कानि तानि।

जगद्गुरुशङ्कराचार्येणोक्तम्। अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च इति।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s