Source: Chinna Katha Part 1 – Stories & Parables by Bhagawan Sri Sathya Sai Baba
सम्पादकः – संस्कृतप्रेरकः राजीवः अनुवादकः – संस्कृतच्छात्रः मनोजः
गृहं प्रत्यागतः अबौ-बेन्-आदमः प्रकोष्ठे अभूतपूर्वं तेजोऽपश्यत्। पुनः तत्र काचन देवता दृष्टा। सा देवता कस्याञ्चन पञ्ज्यां किमपि लिखन्ती आसीत्। शनैः तामुपगम्य पृष्टवान्।
अबौ-बेन्-आदमः – (विनयेन) महोदये भवती किं लिखन्त्यस्ति।
देवता – ये जनाः भगवति प्रीणन्ति तेषां नामानि लिखन्त्यस्मि।
अबौ-बेन्-आदमः करुणामूर्तिः दीनजनहिते रतः आसीत्। निर्धनेभ्यो धनं दीनेभ्योऽन्नम् आश्रयरहितेभ्यो गृहाश्रयञ्च सदा यच्छन्नासीत्। एवङ्कष्टवतामश्रूणि प्रमार्जयन्नासीत्। तस्य भगवतां भिन्नरूपेषु लोकस्य विभिन्नमतेषु भेदभावो नासीत्। सर्वमतानां सज्जनानां सेवा समानबुद्ध्या निष्ठया च कुर्वन्नासीत्। हृदयस्य विशालता मनसस्स्थैर्य्यं चेत्येते द्वे एव तस्य मते मुख्यगुणौ स्तः।
देवता – किन्तु तव नाम अस्मिन् पुस्तके नास्ति।
परेद्यवि पुनः तस्य गृहं तेजोमयमासीत्। पुनः सा एव देवता उपविशन्ती लिखन्ती चासीत्। किन्त्विदानीम् अपरस्यां पञ्ज्याम्।
अबौ-बेन्-आदमः – (मृदुस्वरेण) महोदये भवती पञ्ज्यां किं लिखन्त्यस्ति।
देवता – येषु जनेषु भगवान् प्रीणाति तेषां नामानि लिखन्त्यस्मि।
अबौ-बेन्-आदमः – (सगद्गदम् कम्पमानः) मम नाम तस्मिन् ग्रन्थे अस्ति वा।
देवता – (ग्रन्थे प्रथमनाम निर्दिश्य आनन्देन) पश्य अस्याम् आवल्यां तव नाम प्रथममस्ति। सर्वान् लोकान् प्रीणातु। एषः एव अतिसुलभो मार्गो भगवतः करुणां प्राप्तुम्।
भगवद्गीतायां द्वादशोऽध्याये श्रीकृष्णः लोकं बोधयति।
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः।।12.4।।
एषः श्लोकः कथायाः सारांशः अस्ति।