एका लघ्वी कथा #१७ – भगवतोऽनुग्रहं प्राप्तुम् आदौ विश्वासः धरणीयः।

संपादकः – राजीवः अनुवादकः – मनोजः

Source: 1. Faith is the first step to the grace of God. (taken from Sathya Sai Speaks, Vol. 2, Ch 48) from Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.

पहलग्रामस्था काचनाशिक्षिका नार्यासीत्। तया पाकशालायां त्रिभ्यः कूपेभ्यः जलं स्वीकृत्य त्रिषु कान्तियुक्तताम्रघटेषु क्रमेण स्थापितमासीत्। तेषान्नामधेयमपि कृतमासीत्। प्रथमघटस्य नाम – गङ्गा द्वितीयघटस्य नाम – यमुना तृतीयघटस्य नाम सरस्वतीति। एताः भरतवर्षस्य तिस्रः पवित्रनद्यः सन्ति। एतैः नामभिः एव सा ताः ख्याति स्म।

गङ्गा
यमुना
सरस्वती

यदाकदापि गृहद्वारे कोऽपि पिपासुरागच्छति स्म तदा सा त्रिभ्यः घटेभ्यः जलस्य मिश्रणङ्कृत्वा तं त्रिवेणीतीर्थम् इति मत्वा ददाति स्म। प्रतिवेशिनः तस्याः चेष्टाः दृष्ट्वा हसन्ति स्म। किन्तु तस्याः दृढविश्वासः आसीत् यत् येभ्यः कूपेभ्यः जलं स्वीकृतं तत्कूपस्थजलं भूगर्भे तिसृभिः पवित्रनदीभिः प्रयागक्षेत्रे संयुक्तं जातम् आसीत् इति।

एकदा तस्य भर्ता काशीक्षेत्राय तीर्थयात्रां कर्तुं सिद्धोऽभवत्। प्रयाणसमये तस्य रक्षणार्थम् एकमङ्गुलीयकं दत्वा माता तमनुग्रहीतवत्यासीत्। तद् हिरण्याङ्गुलीयकम् रक्ष इत्यप्यादिशत्।

यदा स गङ्गानद्यां मणिकर्णिकघट्टे पवित्रस्नानङ्कुर्वन्नासीत् हस्ताच्च्युतन्तदङ्गुलीयकञ्जले अपतत्। तस्य पुनर्प्राप्तिर्नाभवत्।

गृहं प्रत्यागत्य घटनां निवेद्य माता गङ्गा तम् अङ्गुलीयकमैच्छत् अतः सा स्वीकृतवती इत्युक्तवान्। एवमुक्तम् तस्य मातरं सान्त्वयितुम्। किन्तु भर्त्री नाङ्गीकृतवती। माता गङ्गा कदापि कस्याश्चन दरिद्रावृद्धायास्सम्पदं न वाञ्छति इति उक्त्वा भर्तुर्वचनानि निराकृतवती। प्रीत्या समर्पणबुद्ध्या दत्तानि वस्तून्येव सा स्वीकरोति। सा निश्चयेन तदङ्गुलीयकमस्मभ्यं प्रत्यर्पयिष्यति। सा तु अस्माकं पाकशालायामेव निवसन्त्यस्ति। इदानीमेव गत्वा तां प्रार्थयामि।

एवमुक्त्वा सा गृहिणी पाकशालाङ्गत्वा बद्धहस्ता गङ्गानामकं घटं प्रार्थितवती। प्रार्थयित्वा घटे हस्तं स्थापयित्वा गवेषितवती यदा तदा तदङ्गुलीयकम् प्राप्तम्।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s