संपादकः – राजीवः अनुवादकः – मनोजः
भगवतः विश्वनाथस्य मन्दिरे काशीक्षेत्रे भक्तगणा अर्चकाः पुरोहिताश्च भक्तगीतानि गायन्तः आसन् तदा कश्चन धातुमयध्वनिः श्रुतः। शब्दस्य दिशि पश्यत्सु गर्भगृहे सुवर्णस्थालिका दृष्टा। एषा स्थालिका प्रायेण आकाशात् प्राङ्गणे पतित्वा गर्भगृहे प्रविष्टा जाता इति सर्वे ऊहितवन्तः।

सर्वेषु महत् कुतूहलम् आसीत्। तां स्थालिकां परितः स्थितवन्तः। मुख्यार्चकः तां स्थालिकां लक्षयितुं तस्याः समीपं गतवान्। तस्या उपरि उल्लिखितानि अक्षराणि परिगणितवान्।
“एषा स्थालिका मम प्रियतमस्य भक्तस्य एव” इति स्थालिकायां लिखिताक्षराणि मुख्यार्चक उच्चैः पठितवान्।
सर्वे अर्चकाः तां ग्रहीतुं उद्युक्तवन्तः। सर्वे अन्येभ्यः ईर्ष्यन्ति स्म।
मम अपेक्षया कोऽस्ति महान् भक्त इति स्वस्मै वदन्ति स्म। विश्वनाथाय मम समयं सर्वशक्तीः च समर्पयन्नस्मि।
किन्तु यदा ते स्पृशन्ति स्म तदा सा स्थालिका मृण्मयी जायमाना आसीत्।
दावानलः इव एषा वार्ता सर्वत्र प्रसार्यमाना जाता। सुदूरस्थलेभ्यः पण्डिताः गायकाः कवयः साधुपुरुषाः प्रचारकाः च आगम्य स्थालिकां स्पृष्ट्वा स्वीकर्तुं प्रयतमानाः आसन्। किन्तु दौर्भ्याग्यवशात् तेषु स्पृष्टवत्सु सा सर्वथा मृण्मयी जायमाना आसीत्।
एवमेव दिनानि मासा ऋतयस्संवत्सरा अतीतास्तथापि तस्याः ग्राहकार्हः न प्राप्तः।
एकदा कश्चन अपरिचितः पुरुषः मन्दिरम् आगतवान्। प्रवेशद्वारे स्थित्वा दीनजनान् भिक्षुकान् बधिरान् अन्धान् पङ्गून् च दृष्ट्वा तस्य नेत्रे अश्रुपूर्णे जाते। तेषां कृते किमपि न कुर्वन् अस्मि इति भावयित्वा लज्जते स्म।
प्रभुं विश्वनाथं प्रार्थयितुं मन्दिरे प्रवेशं कृतवान्। तत्र जल्पन् जनसमूहः दृष्टः। जनाः चर्चायां मग्नाः आसन्। कः विषयः इति ज्ञातुं समूहस्य मध्ये उपसर्प्य सुवर्णस्थालिकां दृष्टवान्। तस्याः वैशिष्ट्यं तत्रत्येभ्यः ज्ञातवान्। स्थालिकां ग्रहीतुं प्रयत्नं कृत्वा असफलतां प्राप्तवताम् अर्चकानां महापण्डितानाम् अन्येषां च मनोभावनानि ज्ञात्वा महाखेदम् अनुभूतवान् ।
अहो महाविश्वनाथं प्रार्थयित्वा तस्य शरणागतिं प्राप्तुम् प्रार्थनां कुर्युः किन्तु त्यक्त्वा तां सुवर्णमयस्थालिकां प्राप्तुं तपन्ति इति विलपितवान्।
तस्य निरपेक्षत्वं परिगणय्य मुख्यार्चकः तां स्थालिकां स्वीकर्तुं तं निवेदितवान्। हे महापुरुष सुवर्णे वा रजते वा मम कापि आशा नास्ति अहं तु प्रभुविश्वनाथस्य अनुग्रहम् एव वाञ्च्छामि इति सः उक्तवान्।
पुनः मख्यार्चकः तं प्रार्थितवान्। अस्माकं कृते कृपया एकवारं तां स्थालिकां स्वीकर्तुं प्रयतस्व इति।
अनपेक्षया ताम् अगोचरां स्थालिकां स्पृष्टवान्। तत्क्षणे एव सा स्थालिका इतोऽपि शोभमाना जाता। तस्याः तेजः सर्वदिक्षु प्रकाशितम्। सर्वे आश्चर्यचकिता अभवन्।
भवान् कुतः आगतवान्। भवतः नाम किम्। भवान् कः। कियत् तपः कृतम्। कानि शास्त्राणि अधीतानि। इति नैकान् प्रश्नान् पृष्टवन्तः।
सः अपरिचितः उक्तवान् यत् अहं तु परिव्राजकः नैकत्रवासोऽस्मि। सामान्यकर्मकरोऽस्मि। प्रतिदिनं किञ्चित् किञ्चित् कार्यं कृत्वा अल्पधनं सम्पादयामि। मम साधना तु केवलम् भगवतः नित्यनामस्मरणम्। अनया साधनया मम हृदयम् शुद्धं पवित्रं जातम् इति मन्ये। अनया मनोनिग्रहणं इन्द्रियाणां नियन्त्रणं च अभवताम्। अहं तु अशिक्षितोऽस्मि। पुस्तकानि अपठितानि। शास्त्राणि न अधीतानि। नामस्मरणमात्रमेव जानामि अन्यं किमपि न जानामि। दीनेषु दरिद्रेषु दयाभावप्रकटनम्। एते एव मम साधने।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 4. A heart full of compassion is the temple of God.