एका लघ्वी कथा #१९ – यदि सः सर्वव्यापी तर्हि किमर्थं तं सर्वत्र द्रष्टुं न शक्यते।

संपादकः – राजीवः अनुवादकः – मनोजः

एकदा कश्चन साधुः नास्तिकजनानां कस्मिंश्चन समूहे आपतितवान्। ते नास्तिकाः तं रुद्ध्वा नैकैः व्यर्थैः प्रश्नैः अबाधन्त। यस्मिन् भगवति सः विश्वसिति स्म तं भगवन्तं दर्शयितुं हठितवन्तः।

सः साधुः तेषां प्रार्थनाम् अङ्गीकृतवान्। तदर्थं किञ्चित् दुग्धं प्रार्थितवान्। प्राप्ते दुग्धभाण्डे हस्तक्षेपणं करोति स्म। एवं बहुकालं कृतवान्। नास्तिकाः तस्य कार्यं वीक्ष्य जातामर्षाः अभवन्।

भवान् किं कुर्वन् अस्ति इति पृष्टवन्तः। नवनीतं कुत्र अस्ति क्षीरे? क्षीरस्ये उपरि वा अधोभागे वा मध्ये वा इति अन्वेषणं कुर्वन् अस्मि इति उत्तरं प्रकटितवान्।

भो मूढ तत् तु क्षीरे सर्वत्र भवति। तथापि मन्थनात् एव नवनीतं प्राप्यते।

ततः साधुः सर्वान् बोधितवान्। एवमेव भगवान् अपि सर्वव्यापी अस्ति। जगति प्रत्येकस्मिन् अणौ सः विद्यते। किन्तुं तं लक्षयितुं साधनायाः अपेक्षा वर्तते। साधनायाः ऋते तस्य दर्शनं न भवति।

Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 14. God can be known only by experience and not by experiments. And for this Spiritual practice is necessary.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s