संपादकः – राजीवः अनुवादकः मनोजः
एकस्मिन् एव सन्दर्भे जनानां बहुविधप्रतिक्रियाः अवलोक्य स्वामिना विवेकानन्देन ज्ञानं प्राप्तम्।
मर्गे पतितम् उन्मत्तं पुरुषं दृष्ट्वा द्वौ उन्मत्तौ चोरौ ऊहितवन्तौ यत् सः पतितः अपि कश्चन उन्मत्तः चोरः एव स्यात्। यः चोरकार्यं कृत्वा मत्तो भूत्वा पतितः इति।
भ्रामरेण रोगेन ग्रस्तः कश्चन जनः चिन्तितवान् यत् प्रायेण सः रोगेण पीडितः मर्गे पतितः आसीत् इति।
कश्चन साधुः तस्य मौनित्वं संलक्ष्य अभ्युपगतवान् यत् सः महापुरुषः यः निर्विकल्पसमाधिस्थितौ भवेत् इति। अतः तस्य पादसेवां कृतवान्।
ईदृशाः विविधाः प्रतिक्रियाः सूच्यन्ते यत् पुरुषः स्वकीयमनोभावान् आश्रित्य सन्दर्भं अवगच्छति न तु साक्षात् तत्रत्यघटितं विषयम्।
अतः स्वामी विवेकानन्दः अपि ज्ञातवान् यत् तस्य गुरोः औन्नत्ये सन्देहाः स्वस्मात् उत्पन्नाः एव न तु गुरौ विद्यमानाः सन्ति। सः गुरुः रामकृष्णपरमहंसः तु शुद्धपुरुषः एव। दोषाः तु स्वस्य दृष्टौ एव सन्ति इति अवगतवान्।
एवम् अवगम्य पश्चात्तापं कृतवान्। सर्वं मात्रे निवेद्य पुनः तस्याः मातुः गुरोः रामकृष्णस्य समीपं गन्तुम् अनुमतिं स्वीकृतवान्।
माता स्वधर्मम् आचर इति संबोध्य तस्य प्रार्थनाम् अङ्गीकृतवती।
एवं स्वमीविवेकानन्दः ज्ञातवान् यत् पुरुषस्य स्खलिताबुद्धेः कारणात् तु परमात्मानं न लक्षयति। अज्ञानेन परमात्मनि अपि दोषान् अवलोकते। किन्तु सः परमात्मा तु निर्मलः अव्यक्तः निर्गुणः नित्यः सुद्धः चास्ति।
Source:
Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 18. There is nothing wrong with Srishti (creation). All faults are due to the defective Drishti (vision).