Source: From Stories and Parables by Bhagawan Sri Sathya Sai Baba – Chinna Katha Part 1 – Absorb only good ideas from Satsang
अनुवादकः मनोजः सम्पादकः राजीवः
नैके जनाः सत्सङ्गादपि सच्चिन्तनानि न प्राप्नुयुः। सत्सङ्गे स्थितेऽपि तेषां मनांसि अन्यत्र भ्रमन्ति। अपि पूर्वतनतत्त्वानि सिद्धान्तानि च मनसि निधाय सत्सङ्गे उच्यमानान् विषयान् निराकुर्वन्ति।
अतः सत्सङ्गे स्थितवन्तोऽपि तस्माद् प्रयोजनं न लभन्ते। सत्सङ्गे विद्यमानाः ते निद्रान्ति वा अन्यविचारान् विचारयन्ति। केचन इतस्ततः दृश्यमानाः भवन्ति। अल्पैः जनैः एव उच्यमानं तत्त्वं गृह्यते।
एकदा कश्चन पण्डितो रामायणस्य व्याख्यानं कुर्वन्नासीत्। एवं सप्तसु दिनेषु क्रियमाणः आसीत्। काचित् विश्वस्ता नारी यस्याः भर्ता अचिरात् दिवङ्गतः आसीत् सा अतीव दुःखिता सती स्वसान्त्वनार्थं तत्र आगच्छन्ती आसीत् । प्रतिदिनम् आगत्य अग्रे उपविशति स्म।
यदा पण्डितः व्याख्यानं करोति स्म तदा सा तस्य पुस्तकं दृष्ट्वा नितराम् अश्रूणि मुञ्चति स्म।
तस्याः चेष्टाम् अवलोक्य तस्यां महती भक्तिः वर्तते इति पण्डितेन चिन्तितम्। सप्ताहस्य समाप्तौ पण्डित उक्तवान् यत् तस्यै एव आदौ प्रसादः दीयेत यतो हि सा प्रतिदिनं सत्सङ्गम् आगम्य श्रद्ध्या श्रुणोति स्म इति।
भवत्यै रामायणस्य व्याख्यानम् अरोचत वा इति पृष्टवान् पण्डितः।
दुःखिता नारी उक्तवती यत् रामायणं वा महाभारतं वा इति न जाने। किन्तु पुस्तके विद्यमाना कृष्णरज्जुः मम दिवङ्गतस्य भर्तुः कटिबन्धं स्मारयति स्म। अतः नितराम् अश्रुधारा भवति स्म।
एवं ज्ञापितवती तस्याः अश्रुणां कारणं न तु रामायणे भक्तिः किन्तु दिवङ्गते भर्तरि संसक्तिः इति।