एका लघ्वी कथा #२२ – भक्तिः न तु शक्तिः। गुणाः न तु कुलम्। चित्तं न तु वित्तं भगवन्तं प्रसीदति।

सम्पादकः – राजीवः अनुवादकः – मनोजः

कश्चन भक्तः सेन: इति नाम्ना अक्बर्महाराजस्य शासनकाले निवसति स्म। सः नृपतेः अङ्गमर्दकः (masseur) आसीत्। प्रत्यहं प्रभाते सप्तवादने महाराजस्य अक्बर्वर्यस्य अर्धघण्टात्मकम् अङ्गमर्दनं करोति स्म। 

एकदा सेनः स्वगृहे नित्यपूजायां मग्नः आसीत्। भगवतः सौन्दर्येण वशीभूतः सन् सः समयं स्वकर्तव्यं च विस्मृतवान्। तस्य धर्मपत्नी एतद् अवलक्ष्य तपति स्म। भर्तुः प्रार्थनाभङ्गं कर्तुं अनिच्छन्ती सा पूजाप्रोकोष्ठात् बहिः एव इतस्ततः भ्रमन्ती कण्ठते स्म।

किन्तु प्रासादे अन्तःपुरे सेनः अक्बर्वर्यं सेवमानः आसीत्। सेवकस्य उत्तमकार्यम् अनुभूय प्रहृष्टः अक्बर्महाराजा तं श्लाघितवान्।

“हे सेन। ईदृशी तृप्तिः मया कदापि पूर्वं न अन्वभूयत। तव तु दिव्यकरौ स्तः।” 

अर्धघण्टायाः उपसमाप्ते यदा महाराजस्य दृष्टिः तैलपात्रे पतिता तदा श्रीकृष्णस्य मुखस्य प्रतिफलनम् अवलोकितम् न तु सेवकस्य सेनस्य वदनम्। 

आश्चर्यचकितः सः सद्यः सेनम् अभिपश्यति चेत् तत्र कोऽपि न उपस्थितः आसीत्।

Source: 

Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.

Story Title: 64. The Lord sees your bhakti (devotion) and not shakti (power) . He cares for your gunas (qualities) and not kula (caste) . He looks at your chittam (heart) and not at vittam (wealth).

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s