सम्पादकः – राजीवः अनुवादकः – मनोजः
माता स्वपुत्रः च दारिद्र्यं सहमानौ जीवतः स्म। पुत्रे जाते पिता पञ्चत्वं गतः आसीत्। बहु श्रमेण माता स्वतनयं विद्यालये पाठयति स्म। कथञ्चित् अन्तिमां कक्षाम् अप्रापयत्। ततः परीक्षायाः शुल्काय नवतिः रूप्यकाणि दातव्यानि आसीत्। कथम् एतावत् धनं लप्स्ये इति चिन्ताग्रस्ता आसीत्। मातरि कस्यांश्चन वृक्षच्छायां रोदनं कृतवत्यां सुतः ताम् उपसर्प्य खेदस्य कारणं पृष्टवान्।
माता कारणम् उक्तवती “प्रिय तनय, परीक्षाशुल्कं दातुं सम्प्रति धनं नास्ति। अतः इतः परं त्वया विद्याभ्यासः त्यक्तव्यः। एषः प्रसङ्गः मां नितरां खिद्यते।”
पुत्रः मातुः वचः श्रुत्वा “मातः, कोऽपि नास्ति वा सहकर्तुम्। भाविनि काले धनं प्रत्यर्पयिष्यामि। ”
जननी सुतस्य वचनानि आकर्ण्य “ अनाथानां नाथः श्रीमान् नारायणः एव। सः एव लक्ष्मीवान् जगत्पालकः च।”
पुत्रः निर्मलचेतसा “कुत्र अस्ति सः परमात्मा? कथञ्चित् तस्मात् धनं प्राप्स्यामि।” इति मातरं पृष्टवान्।
माता अवदत् “सः तु वैकुण्ठे निवसति।”
शङ्कां विना मातुः उत्तरम् अङ्गीकृतवान्। झटिति पत्रं लिखित्वा पत्रालयं गतवान्। पत्रस्य उपरि सङ्केतम् एवं लिखितवान्।
श्रीमते नारायणाय, वैकुण्ठम्

बालकः नारायणाय पत्रं लिखित्वा पत्रालयं गतवान् प्रेषयितुम्।
लेखभाण्डः (post-box) किञ्चित् उपरि आसीत्। तस्मिन् पत्रं स्थापयितुं प्रयतमानं बालकं दृष्ट्वा पत्रालयाधिकारी (post-master) तं सहकर्तुं प्रतिगतवान्।
पत्रालयाधिकारी पृष्टवान् “बालक, कस्मै पत्रं लिखितम्।”
बालकः “महोदय, अनिवार्यः सन्दर्भः अयम्। पत्रं त्वरया प्रेषणीयम्। श्वः एव धनं प्राप्य विद्यालयाय शुल्कं दातव्यम्। अद्य एव एतत् पत्रं गच्छेत् इति कृपया कारय।” इति प्रत्युदतरत्।
पत्रालयाधिकारी बालकात् पत्रं स्वीकृत्य उपरि लिखितम् सङ्केतं पठितवान्।
“श्रीमते नारायणाय, वैकुण्ठम्” इति पिहितपत्रे लिखितम् आसीत्।
केन एषः सङ्केतः सूचितः इति बालकम् अपृच्छत्। बालकः पत्रालयाधिकारिणं सर्वं वृत्तान्तं निवेदितवान्।
बालकस्य दुस्स्थितिं ज्ञात्वा पत्रालयाधिकारी द्रवीभूतः सन् बालकस्य शुद्धं चित्तं संलक्ष्य ज्ञापितवान्
“पुत्र अद्य एव पत्रं प्रेषयेयम्। त्वं श्वः अत्र आगच्छतु। तावता प्राप्तं धनं स्वीकर्तुं शक्ष्यसि।”
एवं श्रुत्वा संतुष्टः बालः गृहं गतवान्।
परेद्यवि पत्रालयं गत्वा पत्रालयाधिकारिणं धनागमनस्य विषयं पृष्टवान्। पत्रालयाधिकारी अन्तः स्थितात् प्रकोष्ठात् नवतिं रूप्यकाणि आनीय बालाय दत्तवान्।
पुत्रः धनं स्वीकृत्य मातरं प्रतिधावितवान्।
व्याकुला ऊहमाना माता स्वगतं चिन्तितवती “कुतः धनं प्राप्तम्। चौर्येण प्राप्तं वा कस्माच्चित् स्वीकृतम्।”
स्वपुत्रं पृष्टवती “कुतः धनं प्राप्तवान्” इति।
पुत्रः घटितं सर्वं कथितवान्। नारयणेन एव धनं प्रेषितम् इति दृढविश्वासेन मातरम् उक्तवान्।
माम् पत्रालयाधिकारिणा मेलयतु इति जननी पुत्रम् आदिशत्।
ततः तौ पत्रालयाधिकारिणः सकाशं गतवन्तौ। मातरि पत्रालयाधिकारिणं पृष्टवत्यां सः “यदा अहं बालकस्य पत्रं दृष्टवान् तदा भगवान् माम् बालकाय धनं दातुं प्रेरितवान्। अतः दाता तु श्रीमान् नारायणः एव। अहं तु निमित्तमात्रमेव अस्मि।” इति उक्तवान्।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 85. If you want to pray to God, be like an innocent child.