सम्पादकः – राजीवः अनुवादकः – मनोजः
कश्चन पान्थः प्रयाणे कञ्चन आश्रमं प्रतिगतवान्। तस्य आश्रमस्य समीपे श्माशनम् अपि आसीत्। तस्मिन् आश्रमे चण्डातपात् किञ्चित् आश्रयं स्वीकर्तुं अन्तः प्रविष्टवान्। तत्रत्यः गुरुः शिष्यान् भाषते स्म। दिव्योपदेशं श्रोतुम् अयम् उत्तमावकाशोऽस्ति इति विचिन्त्य स प्रसङ्गे उपविष्टवान्।
सूर्यास्ते जाते गुरुः शिष्याः च आश्रमात् बहिः गतवन्तः। बाह्यमार्गे किञ्चित् विचित्रं दृश्यम् अवलोक्य कुतूहलेन गुरुं पृष्टवन्तः।
शिष्याः – गुरु वर्य। तत्र किम् प्रचलति।
गुरुः – (मन्दस्मितं प्रदर्श्य) शृगालाः शुनकाश्च मृतशरीरं नयन्तः सन्ति।
श्माशने भूमिं खनित्वा गर्ते विद्यमानं निखातं शरीरं उन्नीय शृगालाः शुनकाश्च खादनार्थं नयन्तः आसन्। तदानीमेव कश्चन ज्येष्ठशृगालः तत्र आगत्य किमपि अभाषत। अनेन सर्वे मृगाः तत् स्थलं त्यक्त्वा वनं निर्गतवन्तः।
एतत् संलक्ष्य
शिष्याः – प्राप्तं क्रव्यं त्यक्त्वा किमर्थं सर्वे मृगाः निर्गतवन्तः।
गुरुः – (ध्यानशक्त्या ज्ञात्वा गुरुः बोधयति) अस्य शवस्य जीवनयात्रा विशिष्टा अस्ति। एषा व्यक्तिः स्वजीवने बुधजनवचनानि कदापि न अनुवर्तितवती। तेषां हितकथनानि अनादारेण श्रुणोति स्म। स्वजीवने स्तोकमपि सत्कर्म न आचरितवती। भद्राणि कदाऽपि न दृष्टवती। अङ्गैः कस्यापि परोपकारं न कृतवती। सर्वदा परद्रव्येषु लुभ्यति स्म। किन्तु भिक्षुकेभ्यः क्षुधार्तेभ्यश्च अन्नपानं मनागपि न दत्तवती। स्वपादाभ्यां पवित्रस्थलं देवालयं वा न प्राविशत्।
सः ज्येष्ठशृगालः एतत् सर्वं सर्वान् मृगान् ज्ञापयित्वा मृगैरपि भक्षणाय एतद् अनुचितं शवमस्ति इति घोषितवान्।
तस्य शवस्य स्पर्शनेन अपि तया व्यक्त्या कृतपापानि अस्मान् अनुसरन्ति। एवं ज्येष्ठात् बोधनं प्राप्य सर्वे मृगाः शवं सकृत् त्यक्तवन्तः।
___________________

अस्याः कथायाः अयम् आशयः वर्तते। मरणात् परं शरीरस्य किमपि गतिर्भवेत् इति चिन्तनं समीचीनं नास्ति। शरीरस्य पवित्रता अपि साधनीया। तदर्थं स्वजीवने सत्कर्माणि करणीयानि। देहस्य प्रत्यङ्गं सत्कर्मसु प्रवर्तेत। अपवित्रं मृतशरीरं शृगालाः अपि त्यजन्ति। शरीरस्य महत्त्वं कदापि न विस्मरणीयम्। एषः कायः सत्कर्माणि आचरितुं दत्तः अस्ति। अतः देहस्य अङ्गैः सत्कार्याणि करोतु।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 39. The body has been gifted in order to serve others.