मार्गदर्शकश्च सम्पादकः – राजीवः अनुवादकः – मनोजः
कथा १
एकदा कश्चित् पथिकः प्रचण्डातपे दीर्घां यात्रां कुर्वन् आसीत्। सः श्रान्तः सन् वृक्षच्छायायां विश्रान्तिं स्वीकरोति। स विशिष्टः कल्पतरुरासीत्। तत्र छायायाम् उपविशन् शीतलं जलम् अकामयत। वाञ्छितं जलं तस्य पुरतः प्रत्यक्षीभवति। पिपासां शमयित्वा शयनार्थं शय्यां कामयते। सकृत् ताम् अपि प्राप्नोति।
यदि मम भार्या अपि अत्र स्यात् तर्हि सुखमयं भवेत् इति कल्पितवान्। सद्य एव पत्नीम् अपि अलभत।
कथं मम पत्नी या दूरे गृहे निवसति इदानीम् अत्र आगतवती अस्ति। प्रायशः एषा राक्षसी भवेत् इति अशङ्कत। तस्य चिन्तानुसारं सा राक्षसी भूत्वा तम् अभक्षयत्।
अधिका तृष्णा काले सर्वं प्रणश्यति। तृष्णा आन्तरा वैरिणी अस्ति। अतो जागरूको भव।
कथा २
रामायणे यदा श्रीरामो विवासाय अङ्गीकृत्य वनङ्गच्छति तदा धर्मपत्नी सीता अपि सर्वान् राज्यभोगान् हित्वा रामम् अरण्याय अनुसरति। रामेण सह उषितुं वनजीवनमपि सहते। रामाय सर्वा अन्याः तृष्णाः त्यजति। महता त्यागेन यावत् त्रयोदशसंवत्सरान् प्रभुरामेण सह सुखं जीवति।
किन्तु एकदा तस्याः मनसि काचन लिप्सा उत्पन्ना भवति। तस्मात् कारणात् दयितात् बहुदूरं गच्छति।
हिरण्मयहरिणं दृष्ट्वा लब्धुकामा भवति। या देवी पूर्वं सर्वं त्यक्तवती आसीत् सा इदानीं काममोहिता भवति। अनेन श्रीरामात् वियोगं प्राप्नोति।
परन्तु भाविनिकाले रामाय नितरां तपति। सायुज्याय असकृत् प्रार्थयति। प्रतिश्वासं राम राम राम इति स्मरन्ती भवति। अन्ते श्रीरामः स्वयमेव तां विमोच्य दिव्यसान्निध्येन अनुगृह्णाति।
________________________
यावत् कामं आश्रयति तावत् रामं न प्राप्नोति। कामं त्यजति चेत् रामं प्राप्नोति। संसारः त्यक्तव्यः इति आशयः नास्ति। किन्तु यदा कदापि आशाः आगच्छन्ति मनसि तदा सम्यक्तया विचारं करोतु। यदि स्वहिताय च अन्येषां अहिताय कल्पते तर्हि तम् अनुसरतु। नोचेत् तं त्यजतु। यदि मनसि स्पष्टता न भवेत् तर्हि प्रतीक्षस्व। यावत् कालं विषयः न स्पष्टी भवति तावत् तस्मिन् विषये किमपि न करोतु।
Source:
Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 19. Spiritual progress is directly proportional to the reduction of desires.