एका लघ्वी कथा #२६ – परमात्मा मानुषरूपेण भुवि प्रत्यक्षीभूय धर्मसंरक्षणं करोति।

अनुवादसम्पादकः – राजीवः अनुवादकः – मनोजः

भवान् पृच्छेत्। 

किमर्थं परमात्मना स्वयमेव अवतरणीयः। तस्याधीने नैके देवदेवताः सन्ति। तैः किमर्थं कार्याणि न साधयेत् इति।

अक्बर्महाराजः हिन्दूनां भगवतः अवतरणसिद्धान्ते न विश्वसिति स्म। निर्गुणः सः नामरूपे धृत्वा धर्मसंरक्षणाय युगे युगे अवतरति इति सनातनधर्मस्य मूलसिद्धान्तः विद्यते। किन्तु राजा अक्बरः एतत् मतं निराकृत्य परिहसति स्म। 

एकदा इमाम् एव पृच्छां मन्त्रिपरिषदि चर्चायै उपस्थापितवान्। उत्तरं निवेदयितुं सभासदस्यः तानसेनः सप्ताहात्मककालं प्रार्थितवान्। महाराजः प्रार्थितं समयावकाशं प्रदत्तवान्।

कतिपयदिनान्यन्तरम् एकदा राजा सरसि तर्यां सुखं विहरन्नासीत्।

तदा तानसेनः राज्ञः पुत्रेण सदृशीं पुत्तलिकां सरसि निमज्ज्य “ अहो राजपुत्रः निमग्नः जातः अस्ति। ” इति राजानं श्रावयितुम् उच्चैः विलपितवान्। 

दुःखकरीं वार्ताम् आकर्ण्य राजा अक्बरः सकृत् स्वयमेव स्वात्मजरक्षणाय जले मग्नवान्।

तत्पश्चात् तानसेनः राज्ञे सर्वं स्पष्टीकृतवान्। 

पुत्रः तु सुरक्षितः एव अस्ति। सा तु तव पुत्रसदृशी पुत्तलिका आसीत् इति।

कुपितं माहाराजं सान्त्वयितुं तानसेनः कृतनाटकस्य कारणं विवृतवान्।

हिन्दूनाम् परमात्मनः अवतरणसिद्धान्तं संबोधयितुं  मया एवं नटितम्।

परमात्मा लोकधर्मरक्षणाय स्वयमेव आगच्छति। किमर्थम्।

स्वतनयरक्षणाय भवान् सम्राट् चेदपि अन्यान् कांश्चन अपि न आमन्त्रितवान्। भवतः नैके किङ्कराः सन्ति। भवतः आदेशं पालयितुं ते सर्वथा संसिद्धाः भवन्ति। तथापि स्वयमेव झटिति अविलम्बेन जले निमग्नवान्। किमर्थम्। तत्र तु भवतः पुत्रे विद्यमानं प्रेम एव कारणमस्ति।

एवमेव परमात्मा अपि स्वपुत्रतुल्यं धर्मं परिरक्षितुं स्वयमेव अवतरति। यदा कदापि धर्मस्य ग्लानिर्भवति तदा तदा मानवरूपेण आगत्य अवतारपुरुषः धर्मसंरक्षणं कृत्वा लोकान् उद्धरति। 

पुनः किमर्थं मानवरूपेण आगच्छति इत्युक्ते। सर्वे जनाः तैः सह संभाषणं कुर्युः तं पश्येयुः तं सेवेरन् वन्देरन् पूजयेयुः चेति। अन्ततो गत्वा तेन सहः यः विशिष्टः समवायसम्बन्धः वर्तते तं जानीयुः इत्याशया सः मनुष्यरूपेण अवतरति।

Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.

Story Title: 75. The Lord takes human form and comes among men to restore the sense of values.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s