एका लघ्वी कथा #२७ – धृतिः आत्मविश्वासं जनयति। आत्मविश्वासात् आत्मबलं लभ्यते।

संपादकः – मार्गदर्शकः राजीवः

अनुवादकः – संस्कृतच्छात्रः मनोजः

भवन्तः सर्वे अब्रहाम् लिङ्कन् वर्यस्य जीवनवृत्तान्तं जानन्ति किल। 

सः कस्मिंश्चित् निर्धने कुटुम्बे जन्म प्राप्तवान् आसीत्। तस्य पार्श्वे धर्तुम् उचितानि वस्त्राणि अपि न आसन्। विद्यालये तस्य वस्त्राणि दृष्ट्वा अन्यच्छात्राः परिहसन्ति स्म। तेषां निन्दनम् असहमानः लिङ्कन् बालः रुदन् मातरं निवेदितवान्।

“ हे मातः, विद्यालये सर्वे मम वस्त्राणि दृष्ट्वा परिहसन्ति। अहं कश्चन नीचः इति मत्वा मम सङ्गं निराकुर्वन्ति। मत्तः दूरं गच्छन्ति। ”

तस्य विलपनं श्रुत्वा माता उपदिशति।

“ प्रिय पुत्र, अस्माकं दरिद्रतां त्वं जानासि एव। अतः अन्यजनानां वचनानि मा परिगणय। आत्मगौरवं संरक्ष। आत्मनि विश्वासं वर्धस्व। आत्मविश्वासः एव सर्वं धनं सम्पत्तिं च अनुगृह्णाति। ”

ततः परं मातृवचनानुसारं लिङ्कन् बालः स्वात्मगौरवं रक्षितवान्। कालक्रमेण अमेरिकादेशस्य प्रधानी अपि अभवत्।

यद्यपि निर्धने कुले जातः तथापि स्वजीवने उन्नतस्थानानि प्राप्तवान्। कारणं तु तस्य आत्मविश्वासः आत्मगौरवं चैव। आत्मगौरवात् दैवानुग्रहः अपि प्राप्यते।

” निन्दितः सन् अपि कदापि निराशः मा भूत्। यत्किमपि जीवने भवेत् तत्सर्वं मम सुखाय एव अस्ति इति विचिन्त्य समबुद्धिः भव। यदि ईदृशं समत्वं प्राप्नुयात् तर्हि लोके सर्वश्रेष्ठः भविष्यसि। ” इति माता तं बोधितवती।

Source: 

Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 48. Fortitude endows man with self-confidence. Self-confidence generates an immense internal power.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s