सम्पादकः – राजीवः
अनुवादकः – मनोजः
बाह्यसाधनायाः परिमितिः स्यात्।
मीरा परमभक्ता आसीत्। सर्वत्र श्रीकृष्णम् एव पश्यति स्म। कृष्णपरमात्मानं विहाय तस्यां दृष्टौ किमपि अन्यत् नासीत्। किन्तु तस्याः काचन बाह्यवाञ्छा आसीत्।
श्रीकृष्णस्य विग्रहं संस्थाप्य आदिनं भजनादिभिः तस्य पूजा करणीया इति सा कामयते स्म। किन्तु तया कथं मन्दिरं निर्मातव्यम्। अपेक्षितं धनं नासीत्। तस्याः कृते असाधनीयं कार्यम् इति भासते स्म। तस्याः जीवने एतत् कार्यं कर्तुं शक्यते वा इति आशङ्का आसीत्।
एकदा उदैपुरस्य महाराजः महाराणः तां दृष्ट्वा तस्याः सौन्दर्येण मोहितः सन् तां परिणेतुं उद्युक्तः अभवत्। किन्तु मीरायाः विवाहे काऽपि आसक्तिः नासीत्। तस्याः जीवनस्य लक्ष्यं तु अतिभिन्नमेव आसीत्।
महाराजः धनवान् यशस्वी श्रीमान् चास्ति। यदि अहं तस्य पत्नी भवेयं तर्हि मम अतिप्रियतृष्णां पूरयितुं शक्नोमि इति मीरा चिन्तितवती।
महाराजेन सह विवाहं कृत्वा ततः श्रीकृष्णस्य मन्दिरं निर्माय आदिनं प्रभोः पूजायां मग्ना भवेयम् इति कल्पितवती मीरा। अतः धन्या भविष्यामि। एवं मोहान्विता मीरा विवाहं कृतवती।
विवाहानन्तरं तस्याः दिनचर्यया असन्तुष्टः महाराजः मन्दिरं त्यक्त्वा इतः निर्गच्छ इति मीरां न्यवर्तयत्। स्तब्धा सती मीरा बहुधा खिद्यते। किन्तु एतस्याः घटनायाः महत् तथ्यम् अपि अवगच्छति।
तत् मन्दिरं तु महाराजेन निर्मितम् अस्ति। कदाचित् तस्य ध्वंसं भविष्यति काले । किन्तु मम हृदयमन्दिरं तु प्रभुणा निर्मितम् अस्ति। मम हृदि प्रभुः प्रतिष्ठितः सन् अस्ति। एतत् शाश्वतम् अस्ति। अपि यत् श्रीकृष्णः नारदमहर्षिम् उक्तवान् आसीत् तत् स्मृतवती
“मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद…”
Source:
Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.Story Title: 87. There is no need to install a picture of the Lord in your small shrine to worship Him. Install Him in your heart and adore Him.