सम्पादकः – राजीवः
अनुवादकः – मनोजः
स्वामी विवेकानन्दः जनजागरणाय देशाटनं कुर्वन् कांश्चन नगरीम् आगतवान्।

तस्य महत्त्वं पाण्डित्यं च आलक्ष्य नगरस्थाः तम् उपेत्य दिनत्रयं यावत् नितरां नैकान् प्रश्नान् पृच्छन्तः आसन्। केचन साधनानां विषये अन्ये न्यायशास्त्रे तर्के च अपराः व्याकरणशास्त्रे नीतिविचारे च इतरेतरशास्त्रीयविषयेषु प्रश्नान् निवेदयन्तः आसन्। देशहिताय देशोद्धारणाय किं कर्तव्यम् इति ज्ञातुं केचन छात्राः अपि तम् उपसर्पितवन्तः।
तस्मिन् एव प्राङ्गणे कोणे काचन वृद्धा तूष्णीम् उपविश्य त्रिभ्यः दिनेभ्यः सर्वम् अवलोकयन्ती आसीत्। दिनत्रयमपि तत्रैव स्थित्वा स्वामिना भाषितुं प्रतीक्षमाणा आसीत्। यदा अवकाशः प्राप्तः तदा सकृत् समीपं गत्वा “ पुत्र खादनाय किमपि आनयानि। आगताः जनाः भवते खादितुं किमपि न दत्तवन्तः। अपि नगर्यां भिक्षाटनाय क्षणकालः अपि न दत्तः। खाद्यपानानि शीघ्रं धावित्वा आनयानि। अङ्गीकुरु पुत्र।”
मातुः वात्सल्यान्वितानि मधुरवचनानि श्रुत्वा सुप्रसन्नः विवेकानन्दः “मातः त्वं धन्या असि। आत्मोद्धारणाय केवलं पाण्डित्येन वा सेवायै औत्सुक्येन किं प्रयोजनम् स्यात्। अनुकम्पा त्यागः सेवा आत्मवत् सर्वभूतेषु दर्शनं च इति एतैः कार्यैः एव दैवानुग्रहाय योग्यता प्राप्यते।”
प्रेम्णा सेवया च चित्तशुद्धिः प्राप्यते। तस्मात् हृदि परमात्मनः अस्तित्वं प्रकाशते।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 35. Service is the best cure for egoism; so, engage in it to relieve pain and grief to the extent you can.
चित्रस्यमूलं – https://images.app.goo.gl/P6KT465N1SturuMU6