मूललेखः विदुषा महाभागेन रङ्गनाथशर्मणा लिखितः। सः लेखः अत्र प्राप्यते – https://vidwannrs.in/listing/toc/112
यत्किमपि तस्मिन् लेखे लिखितं तान् अंशान् एव अत्र स्ववचसा लिखितम्।
- संस्कृतशिक्षणं द्विप्रकारं प्रचलति। एका पद्धतिः अस्ति या संस्कृतपाठशालासु विद्यते। अपरा अस्ति या अन्यविद्यालयेषु प्रौढशालासु विश्वविद्यालयेषु च प्रचलति।
- का पद्धतिः श्रेष्ठतरा इति न वक्तुं शक्यते। द्वयोरपि गुणदोषाः सन्ति।
- अनयोः या पद्धतिः संस्कृतविद्यालयेषु अनुस्रियमाणा अस्ति तां साम्प्रदायिकं शिक्षणम् इति उच्यते।
- वर्षत्रिदशकात् पूर्वं विद्यमाना पाठ्यप्रक्रिया एव साम्प्रदायिका इति कथ्यते।
- अस्मिन् काले बहुभ्यः कारणेभ्यः पाठ्यक्रमः परिवर्तितः।
- शिक्षकाणां सामर्थ्यं यथा अपेक्षितं तथा नास्ति। छात्राणाम् अध्ययनशीले आलस्यं दृश्यते। परीक्षापद्धतिषु पुस्तकप्रकाशनशैल्यां चापि भिन्नत्वं दृश्यते।
- संस्कृतस्य अध्ययनं द्विधा विभक्तुं शक्यते। प्रथमम् अस्ति संस्कृतभाषायाः अध्ययनम्। द्वितीयम् अस्ति शास्त्रस्य अध्ययनम्।
- आदौ भाषाध्ययनं भवेत्। तदनन्तरं शास्त्राध्ययनं भवतु इति विद्वद्भिः कल्पितः क्रमः।
- अनेन शास्त्रस्य अवगमनं सरलतया भविष्यति इति।
- अतः आदौ साहित्यशिक्षणं व्याकरणशिक्षणं च आयोजितम्। अनेन भाषाज्ञानं वर्धते।
- ततः परम् यदा शास्त्रशिक्षणम् आरभते तदा तावत् काठिन्यं न अनुभूयते।
- भाषाशिक्षणं मध्ये के भागाः अन्तर्भवन्ति। काव्यं व्याकरणं नामपदरूपाणि क्रियापदरूपाणि अमरकोशस्य काण्डत्रयम् च सन्ति। एतैः बुद्धिः क्रमते (एधते)।
- ततः परम् शस्त्राध्ययनस्य प्रवेशः सुलभः भवति।
- काव्याध्ययनं कथं प्रचलत्।
- आदौ गुरुः श्लोकं पठति।
- तदनन्तरं द्वौ वा त्रयः छात्राः उच्चैः पठन्ति।
- तद्पश्चात् पदच्छेदः कर्तव्यः।
- तदनु एकैकस्य पदस्य संस्कारः। इत्युक्ते वचनलिङ्गविभक्तिनिदर्शनम्। एवमेव क्रियापदानाम् अपि।
- ततः परम् गुरुः श्लोकस्य अन्वयम् उक्त्वा भावार्थं तात्पर्यं च बोधयति।
- तदनन्तरं छात्रैः अमरकोशात् पर्यायपदानि वा तत्सम्बन्धपदानि वक्तव्यानि।
- एवं एकस्मिन् घण्टे श्लोकद्वयस्य वा श्लोकत्रयस्य अध्यापनं प्रचलति।
- आकाङ्क्षा अपि ज्ञातव्या। क्रियापदम् आश्रित्य श्लोकस्य भावः कथयितव्यः।
- अनेन क्रमेण भाषाज्ञानं स्पष्टं भवति।
- लेखे रघुवंशमहाकाव्यस्य प्रथमसर्गस्य तृतीयस्य श्लोकस्य उदाहरणं सूचितम्।
- एवं पञ्चमहाकाव्यानाम् केषाञ्चन सर्गाणाम् अध्यापनं क्रियते।
- काव्यानां पठनानन्तरं चम्पूकाव्यस्य अध्ययनम्। अस्य उदाहरणं न सूचितम् अस्ति। अतीव विस्तृतिः प्रक्रिया अतः न प्रदर्शिता।
एतं क्रमं दृश्यरूपेण द्रष्टुम् इच्छति चेत् अत्र दृश्यताम्।
- शास्त्राधयनम् अध्यापनं च कथं प्रचलतः अस्मिन् काले।
- शिक्षणक्रमे विगुणाः दृश्यन्ते।
- स्वतन्त्रतया वक्तुम् असमर्थाः छात्राः।
- पुस्तकम् अतिरिच्य अन्यत् किमपि न जानन्ति।
- वादस्य अवकाशः न भवति एव। तर्हि छात्राः कथं जानीयुः।
- यत्किमपि पुस्तकेषु सन्ति तान् एव परीक्षायां पृच्छन्ति। अनेन छात्रः नूतनं किमपि न जानाति। तर्हि बुद्धेः प्रकाशनं कथं भवेत्।
- काव्यशास्त्रस्य अध्ययने एकस्मिन् शास्त्रे यत् लिखितम् तदेव पाठयन्ति। अन्यशास्त्रज्ञानां कः अभिप्रायः इति न विमृशन्ति। अन्ये तथ्यस्य विरुद्धं कथं कुर्वन्ति। तस्य समाधानं किम्। एतेषाम् अध्यापनम् न कुर्वन्ति। छात्राः अपि मौनं शृण्वन्ति। पुस्तकगतज्ञानं मस्तिष्कं गच्छति। तस्मात् पुनः परीक्षापत्रं गच्छति। पुस्तकात् मस्तकं मस्तकात् पुस्तकम्। हृदि ज्ञानोदयस्य अवकाशः एव न लभ्यते।
- व्याकरणशास्त्रस्य विषये अपि समानस्थितिः अस्ति। यत् अधीतं तदेव ज्ञानं भवति। अन्यानि उदाहरणानि अपि न वदन्ति। व्याकरणशास्त्रम् आश्रित्य काव्यानि पठनीयानि। किन्तु पृथक्त्वेन व्याकरणशास्त्रं पठन्ति। अतः समन्वयं किञ्चिदपि न भवति। तर्हि व्याकरज्ञानेन छात्रस्य सामर्थ्यं कथं वर्धेत।
- तार्किकशास्त्रच्छात्राणां स्थितिः अपि एवमेव अस्ति। अनुमानस्य उदाहरणं पृष्टः छात्रः वदति पर्वतस्य समीपे जायमानं धूमं दृष्ट्वा अग्निः भवेत्। अन्योदाहरणं वक्तुम् असमर्थाः। किमपि पृष्टः चेत् नभोन्मुखाः भवन्ति।
- गृहकार्यविषये किं वा वक्तव्यम्। छात्रस्य सामर्थ्यवर्धकरं किमपि न प्रदीयते।
- शास्त्रकाराणां विषये चर्चा न प्रचलति एव। शास्त्रज्ञः कः। तस्य साधनानि कानि। शास्त्रज्ञानं कथं साधितम्। तदानीन्तनकालः कीदृशः। अन्ये सहपाठिनः के। कृतज्ञताय अपि न स्मरन्ति।