धातूनाम् अध्ययने बहव प्रश्नाः उदयन्ति।
यथा –
१) एकस्य धातोः बहवः अर्थाः भवन्ति। पुनः उपसर्गस्य योजनेन अर्थः भिद्यते।
२) अनेकानां धातूनां समानः अर्थः विद्यते यथा गतिः इत्यर्थे द्विशताधिकाः धातवः सन्ति। कः धातुः कुत्र प्रयोक्तव्यः।
३) धातुपाठे यः अर्थः निर्दिष्टः तदतिरिच्य अपि अन्येषु अर्थेषु धातूनां प्रयोगः दृश्यते। तर्हि किमर्थं सर्वे अर्थाः न सूचिताः धातुपाठे।
४) क्वचित् शास्त्रेषु काव्येषु वा प्रयुक्ताः धातवः पाणिनीयधातुपाठे न प्राप्यन्ते।
एते सर्वे अंशाः अस्मिन् पाठे चर्चिताः। अवश्यं द्रष्टव्यम्।