लेखकः – मनोजः। संपादकः – राजीववर्यः।
काचित् परमरामभक्ता महाराज्ञी आसीत्। सा दुःखिता आसीत् यत् तस्याः भर्ता महाराजः रामनाम्नः उच्चारणं न करोति स्म अपि श्रीरामे तस्य भक्तिः नास्ति इति।
यदा भर्तुः रामभक्तेः प्रमाणं प्राप्नुयात् वा कदाचित् रामनाम्नि स आदरं दर्शयेत् तदा सा समग्रमन्दिरेषु विशिष्टपूजां कृत्वा दीनजनान् उत्सवभोजनं भोजयिष्यामि इति तया प्रतिश्रवः कृतः आसीत्।
एकस्मिन् नक्तं निद्रितः सन् महाराजः अज्ञात्वा त्रिवारं सप्रेम प्रार्थयन् इव रामनामोच्चारणं कृतवान्। रामनामोच्चारणं श्रुत्वा प्रमुदिता सा भर्तरि विद्यमानां रामभक्तिं ज्ञातवती।
सर्वे उत्सवं भजन्तु इति घोषयित्वा दरिद्रजनेभ्यः अन्नदानं कारितवती।
आनन्दोत्सवस्य कारणम् अज्ञात्वा महाराजः चिन्तयन् आसीत्। महाराज्ञ्याः आदेशम् एव अस्य कारणम् इति पश्चात् ज्ञातवान्।
अहो मयि सुप्ते सति किम् जातम् इति विलपितवान्। कैरपि श्रीरामे तस्य विद्यमाना प्रीतिः न ज्ञायेत इति अभिलषति स्म।
******************************************************************************************************
तथैव पतिः पत्न्याः भक्तिं सिद्धीः च न जानीयात्। कश्चन दम्पतिः गहनारण्ये चलन् आसीत् दुष्करं मन्दिरं प्राप्तुम्। तदा पतिः मार्गे प्रकाशमानं मणिं दृष्ट्वा सकृत् तं सिकताभिः आच्छादितवान्। मणिं दृष्ट्वा सा मणिकामी न भवेत् इति आशया एवं कृतवान् आसीत्।
पत्युः चेष्टाम् अवलोक्य हसन्ती तर्जयन्ती उक्तवती “इदानीमपि सिकतारत्नयोः मध्ये भेदं पश्यन् अस्ति किम्”।
तस्याः कृते तयोर्मध्ये कोऽपि भेदः नासीत्। तस्याः अभेददर्शनम् आसीत्।
******************************************************************************************************
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 97. No one can judge another, for, when another is judged you are yourself condemned.