कश्चन बालकः आसीत्। नाम्ना स अखिलः। स नववर्षीयः स्यात्। प्रतिदिनं षड्वादने प्रभाते उत्थाय स्नात्वा वस्त्राणि धृत्वा विद्यालयं गच्छति स्म। पाककार्यं तु माता एव करोति स्म। मात्रा सह बस्यानस्थानं गत्वा प्रतीक्षमाणः अस्ति स्म। तदा बस्यानस्य आगमनपर्यन्तं माता श्लोकान् पाठयति स्म। तेषु अयम् एकः श्लोकः आसीत्।
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम्। शयने यः स्मरेन्नित्यं दुःस्वप्नस्तस्य नश्यति॥
किन्तु प्रातःकाले दुःस्वप्ननाशाय श्लोकः किमर्थं स्यात्। कारणम् अस्ति। स्नानानन्तरं बालकः मातरम् उक्तवान्।

बालकः – मातः। दुःस्वप्नाः मां बाधन्ते। कदाचित् अरण्ये वा विपदि वा निबद्धः अस्मि इति भाति। मम मरणं शीघ्रमेव भविष्यति इति भीतिग्रस्तः भवामि। किन्तु पश्चात् एव ज्ञायते यत् कश्चन दुःस्वप्नः एव आसीत् न तु प्रत्यक्षानुभवः मम इति।
माता – पुत्र। चिन्ता मास्तु। एकम् उपायं ददामि। तस्मात् सर्वे दुःस्वप्नाः नश्यन्ति।
बालकः – एवं वा। तत् किम्।
माता – आम् आम्। इदानीं विद्यालयः गन्तव्यः। समयः अल्पः। भवतः अल्पाहारः अपि न कृतः। अतः इदानीं पाठयितुं न शक्नोमि। यदा आवाम् बस्यानस्थाने प्रतीक्षमाणौ भवतः तदा पाठयामि।
(ततः बालकः सकृत् गमनार्थं सज्जः अभवत्। गमनसमये )
बालकः – मातः। कः स श्लोकः येन दुःस्वप्नाः नश्यन्ति।
माता – वदामि वदामि। सावधानं श्रुणोतु।
(माता एकैकं पदं वदति। बालकः अनुवदति। एवं श्लोकोच्चारणं पूरयति।)
बालकः – धन्यवादाः मातः। अद्यारभ्य शयनात् पूर्वं श्लोकम् इमम् अविस्मृत्य जपामि। किन्तु कथं श्लोकपठनेन दुःस्वप्नः नश्यति।
माता – जानामि भवता पृच्छ्येत इति। त्वं तु व्याख्यां विना किमपि न अङ्गीकरोषि इति। श्लोके केषां केषां नामानि वर्तन्ते।
बालकः – रामः स्कन्दः हनुमान् वैनतेयः वृकोदरः चेति पञ्चनामानि सन्ति।
माता – एतेषां वैशिष्ट्यं किं स्यात्। एकैकशः वदतु।
बालकः – रामः तु इक्ष्वाकुप्रभवः धर्मस्वरूपः अवतारपुरुषः परमपूज्यः विष्णुमूर्तिः च अस्ति।
माता – उत्तमम्। अपि स्कदः।
बालकः – स्कन्दः तु शिवपुत्रः देवानां सेनाधिपतिः वीरः परमयोद्धा च।
माता – ततः हनुमान्।
बालकः – मातः हनुमतः एकः श्लोकः स्मर्यते। गतवर्षे भवती मां बोधितवती।
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥
माता – साधु साधु। इदानीं वैनतेयः कः। कमपि श्लोकं स्मरसि वा।
बालकः – वैनतेयः तु गरुडः इति जानामि। किन्तु कः श्लोकः।
माता – भगवद्गीतायाम् अस्ति। प्रह्लादो…
बालकः – स्मरामि स्मरामि।
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥
अतः वैनतेयः पक्षिश्रेष्ठः अस्ति। तेन तुल्यः खगः नास्ति लोके। स एव महाविष्णोः वाहनम् अपि।
माता – अग्रिमः कः अस्ति।
बालकः – एतावता रामः स्कन्दः हनुमान् वैनतेयः च उक्ताः। इदानीं वृकोदरः। स तु शक्तिमान् मल्लयुद्धे अग्रगण्यः पराक्रमी भीमसेनः।
माता – अवगतवान् वा इदानीम्। यदि वयं एतान् महापुरुषान् स्मरामः तर्हि अस्माकं मनसि तेषु विद्यमानानां गुणानां स्मरणं भवति। यदा भवान् भीमसेनस्य वर्णनं कुर्वन् आसीत् तदा भवतः वाक् गभीरा जाता। भवतः स्कन्धौ उन्नतौ जातौ। केवलं तेषां नामोच्चारणेन एव तेषु विद्यमानाः गुणाः भवति प्रकटिताः अभवन्। एतदस्ति विशिष्टं नामबलम्।
बालकः – सत्यं मातः। मातः मातः अहमपि भीमसेनः इव बलवान् पराक्रमी भविष्यामि। तदा विद्यालये दुष्टान् मारयित्वा जेष्यामि। ह ह ह।
माता – पर्याप्तम्। अधिकवचनं मास्तु। अतः रात्रौ यदि त्वं एतेषां नामानि स्मृत्वा स्वपिषि तर्हि तव मनः धैर्यवत् वीर्यवत् च भविष्यति। ततः कोऽपि दुःस्वप्नः त्वां न बाधते।
माता – पश्य पश्य । तव लोकयानम् आगतम्। आरुह्यताम्।
बालकः – सायंकाले आगमिष्यामि। गृहे एव भवतु। उद्यानं गच्छाव।
(ततः बालकः विद्यालयं गतवान्। माता तु सकृत् गृहं प्रति धावितवती यतोहि पत्युः कार्यालयगमनसमयः अभवत्। कर्तव्यानि निर्वर्तनीयानि किल)
Sanskrit lessons
LikeLike