बालकस्य कथा अनुवर्तते – #२

अखिलस्य पिता नगरे महान् वणिक् आसीत्। बहुश्रमेण स्वप्रयत्नेन धर्ममार्गेन धनार्जनं कुर्वन् आसीत्। स धनवान् आसीत्। अपि तस्य कुले कश्चन प्रसिद्धः आसीत्।

पञ्चतन्त्रे अयं श्लोकः विद्यते –

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३॥

ततः तस्य पितुः अपि बहूनि मित्राणि आसन्। तेषु मित्रेषु कश्चन नूतनगृहनिर्माणं कुर्वन् आसीत्। कार्यस्य परीक्षणाय अखिलस्य पितरम् आहूतवान् आसीत्। अखिलस्य पिता यद्यपि अभियन्ता नासीत् तथापि गृहनिर्माणविषये तस्य अपारं ज्ञानम् आसीत्। जीवने गृहद्वयं निर्मितवान् आसीत् अतः तद्ज्ञानं अनुभवात् प्राप्तवान् आसीत् ।

पिता - पुत्र, श्वः मित्रस्य निर्मिमाणं गृहं परीक्षितुं गमिष्यामि। त्वमपि मया सह आगच्छ। मिलित्वा गच्छाव।

पुत्रः - अस्तु तात। 

(परेद्यवि द्वावपि द्विचक्रिकया गतवन्तौ। पिता तु निर्माणशास्त्रदृष्ट्या वास्तुशास्त्रदृष्ट्या च अवलोकयन् आसीत्। भित्तयः दृढाः वा। कोणाः मसृणाः वा। गृहतलं समानं वा। वर्णलेपनं सम्यक् कृतं वा। एवं रीत्या परीक्षमाणः आसीत्। अपि तस्य मित्रेण सह स्वानुभावान् चर्चन् आसीत्। किन्तु पुत्रः अखिलः तु इतस्ततः भ्रमन् आसीत्। तदा)

पिता - अखिल। त्वं किमपि अन्वेषयन् अस्ति वा। 

पुत्रः - आम् तात। गृहे सर्वे अपेक्षिताः प्रकोष्ठाः सन्ति वा।

पितुः मित्रम् - सन्त्येव। अत्र आगच्छ। इयम् पाकशाला। दक्षिणायां शयनकक्षः अस्ति। पुनः पश्चिमायां भोजनकक्षः अस्ति। उत्तरायाम् अतिथिकक्षः स्वागतकक्षः च स्तः। एवं वास्तुशास्त्रानुगुणं सर्वं निर्मितं स्यात्।

पिता - तनय, तव का आकाङ्क्षा?

पुत्रः - क्षम्यताम् पितः। अस्मिन् गृहे तु देवालयः एव नास्ति। 

पिता - अहो। साधु अवलोकनम्। ईदृशी दृष्टिः त्वयि कथम् उत्पन्ना। पूजागृहस्य नास्तित्वस्य विषये मम अवधानम् एव न जातम्। 

पुत्रः - देवकक्षं विना कथं गृहं गृहं भवति। देवः एव अस्माकं पोषकः रक्षकः आपद्बान्धवः च अस्ति। किन्तु कथम् अस्य विषयस्य स्फुरणं मम मनसि अभवत् इति न जाने। प्रायशः अन्तःप्रेरकः तु भगवान् एव। स एव माम् एवं भाषितवान्। 

पिता - सत्यम् वदन् अस्ति। यद्यपि स भगवान् सर्वव्यापी तथापि तस्य पृथक् स्थानं गृहे भवतु। भो मित्र, समयः न अतीतः। अन्यानि कार्याणि अवशिष्टानि। अतः देवालयमपि ईशान्ये योजयतु इति प्रार्थये।

पितुः मित्रम् - निश्चयेन सुहृत्। भगवान् एव तव पुत्रद्वारा अयम् आदेशः प्रेषितः इति भावयन् अस्मि। शीघ्रातिशीघ्रम् इदं कार्यं पूरयामि। तद्पश्चात् पुनः त्वाम् आह्वास्यामि। भवान् सपुत्रः आगच्छतु।

पुत्रः - पितः। अल्पवयस्कस्य मम वचनेन भवन्तौ ज्येष्ठौ कुपितौ भवेताम् इति चिन्तितवान्। किन्तु तथा न अभवत्। भवन्तौ मम वचनानि सादरं श्रुत्वा अङ्गीकृतवन्तौ। तदर्थं मम प्रणामाः।

पिता - पुत्र, ज्ञानस्य विषये वयसः स्थानं न परिगण्यते। 

      युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि। 
      अयुक्तं नैव च ग्राह्यं साक्षादपि बृहस्पतेः॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s