शब्दः त्रिविधः वाचकः लक्षकः व्यञ्जकः इति। तदनुगुणम् अर्थः अपि त्रिविधः वाच्यार्थः लक्ष्यार्थः व्यङ्ग्यार्थः च इति। काव्यप्रकाशस्य अध्ययनेन इमं विषयं ज्ञात्वा गृहे प्रचलन्ति सम्भाषणानि परिशीलितवान्। तेन ज्ञातवान् यत् त्रयस्य अपि प्रयोगः दैनन्दिनव्यवहारेषु सहजः एव। तस्मात् कानिचन उदाहरणानि अत्र लिखितवान्।
प्रभाते माता – दुग्धम् आगतम् किम् ?
प्रतिदिनं प्रष्टव्यं भवति यतः दुग्धवाहकः नियतरूपेण न आगच्छति। अपि यदा सः न आगच्छेत् तदा प्राक्सूचनां अपि न ददाति। यदि सः नागतः तर्हि दुग्धापणं गत्वा आनेतव्यं भवति। अपि तु तस्मिन् आपणे अधिकं दुग्धं न रक्षन्ति। इत्यतः यदि आनेतव्यं तर्हि शीघ्रं गन्तव्यम्। यदि विलम्बेन गम्यते तर्हि क्षीरं न प्राप्यते एव। अतः दुग्धम् आगतम् किम् इत्यनेन दुग्धवाहकः आगतः वा इति लक्ष्यार्थः ग्राह्यः।
भ्रातुष्पुत्री – गृहे अधिकानि सोपानानि सन्ति।
तत् तु सत्यम् एव। तर्हि वास्तविकस्य कथनेन किं प्रयोजनम् ? प्रथमस्तरे अहं निवसामि। द्वितीयस्तरे भ्रातुः कुटुम्बं निवसति। गृहस्य पाकशाला, भोजनालयः, पूजागृहम् इत्यादयः सार्वजनिककक्षाः प्रथमस्तरे सन्ति। अतः वारं वारं प्रथमस्तरं प्रति आगन्तव्यं भवति। एवम् आदिनं अवरोहणं अवतरणं च कुर्वती सती श्रान्ता भूत्वा कदाचित् सायंकाले उक्तवती यत् अधिकानि सोपानानि सन्ति गृहे। अत्र व्यङ्ग्यार्थः ग्राह्यः।
जनकः माम् उद्दिश्य – भवते पत्रम् आगतम्।
पत्रं तु स्वयम् आगन्तुं न शक्यते। तथापि ईदृशः प्रयोगः प्रसिद्धः एव। अत्र लक्ष्यार्थः ग्राह्यः भवति। यत् पत्रं माम् उद्दिश्य अन्येन प्रेषितं तत् इदानीं गृहं प्राप्तम् इति।
अहं मातरं प्रति – भवती रोटिका वा ?
जननी सुन्दरा देवसमाना वात्सल्यभरिता प्रेममयी च स्यात्। किन्तु कथं माता रोटिका भवितुम् अर्हति ? कदाचित् गृहे रात्रिभोजनार्थं रोटिकाः अन्नं च द्वयमपि आसीत्। सा किं खादितुम् इच्छति इति ज्ञातुम् ईदृशः वाक्यप्रयोगः कृतः। अतः अत्र लक्ष्यार्थः ग्राह्यः। एतादृशः प्रयोगः भोजानलयेषु श्रूयते एव। यदा किं किम् अपेक्षितम् इति परिवेषकः ज्ञापनीयः तदा सामान्यतया जनाः एवं वदन्ति – अहं आम्ररसः, अहं दोशा, अहं पूरिका।
अहं भ्रातृजायाम् उक्तवान् – लण्डन् (London) आगतवान्।
कश्चन पुरुषः आगन्तुं शक्यः। किन्तु देशस्य आगमनं कथं सम्भवति ? नैव शक्यम्। तर्हि अस्य प्रयोगस्य किम् उद्देश्यम्।
मम कश्चन सुहृत् पर्यटनार्थं लण्डन् नगरं गतवान् आसीत्। ततः पक्षानन्तरं भारतं प्रत्यागतवान्। वयं सर्वे तस्य प्रत्यागमनस्य प्रतीक्षमाणाः आस्म। तस्य यात्रानुभवान् श्रोतुं वयं सर्वे उद्युक्ताः आस्म। यदा सः गृहं प्रविष्टवान् तदा अहं उच्चैः उक्तवान् – लण्डन् आगतवान्। अत्र निश्चयेन मुख्यार्थबाधा वर्तते। किन्तु गृहे सर्वे अवगतवन्तः अपि श्रुत्वा हि आनन्दवाचकशब्दैः तस्य स्वागतं कृतवन्तः।
अतः अत्रापि लक्ष्यार्थः अवगम्यः – यः सुहृत् लण्डन् नगरं गतवान् आसीत् सः इदानीं गृहम् आगतवान्।
एवं दैनन्दिनजीवने अपि साक्षात् शास्त्रज्ञानं विना अपि सर्वे विविधरीत्या शब्दव्यापारं कुर्वन्ति। स्वाभाविकतया जनाः सन्दर्भानुगुणं स्वभावनाः प्रकटयितुं अपि अन्यान् अवगमयितुं शब्दानां प्रयोगं भिन्नभिन्नरीत्या कुर्वन्ति। अस्य प्रयोगस्य विषये एव काव्यप्रकाशे द्वितीयोल्लासे मम्मटाचार्येण विशदीकृतमस्ति।
I wonder how your brain works? From where these thoughts evolve?
How you play with thoughts and words!!!
All that I can do is, only to pray Swami, the creator to bless you with abundant bliss and to be blessed always
LikeLike
धन्यवादाः। सः परमात्मा प्रेरकः।
LikeLike