द्विचक्रिका लुप्ता

रविवासरे प्रभाते उत्थाय स्नानादिकं समाप्य गृहद्वारं पिधाय व्यायामव्याजेन द्विचक्रिकया भ्रमणार्थं गतवान्। मार्गात् मार्गम् अटित्वा त्रिंशद्भिः निमेषैः गृहं प्रत्यागतवान्। द्विचक्रिका यानागारे स्थापनीया अस्ति किन्तु अलसः अहं किं वा भवेत् इति विचिन्त्य प्राङ्गणे एव तां स्थापयित्वा गृहं प्रविष्टवान्। कदाचित् अनन्तरं स्थापयिष्यामि इति विचिन्त्य एवं कृतवान्। किन्तु मया विस्मृतम्।

अल्पाहारं स्वीकृत्य किञ्चित् संस्कृतस्य अध्ययनं कृत्वा कार्यानेन आघातवशात् पीडाग्रस्तं प्राध्यापकं द्रष्टुं चिकित्सालयं गतवान्। तदानीमपि द्विचक्रिका स्थापिते स्थले एव आसीत्। यदा गृहं प्रत्यागतवान् तदा समयः सार्धैकवादनम् आसीत्। तदा आसीत् वा न इति न स्मराम्यहम्।

सोमवासरः आगतः अपि गतः। द्विचक्रिकायाः विषये किमपि न चिन्तितं मया। मङ्गलवासरे पुनः द्विचक्रिकया अटनीयम् इति विचिन्त्य भ्रातुष्पुत्रं अपि उत्थाप्य अधो गतवान्। यानागरे पश्यामि चेत् द्विचक्रिका नास्ति। व्याकुलः सन् सर्वत्र दृष्टवान्। सा न दृष्टा। दुःखी अहं गृहे सर्वान् पृष्ट्वान्। अपि सेविकां तस्याः पुत्रीं च। कोऽपि न जानाति किम् अभवत् इति।

मम मनःशान्तिः भग्ना जाता। आलस्यात् यद् अहं कृतवान् तस्य परिणामः महती हानिरेव। एतावत् पर्यन्तं एतादृशं चोरकार्यं कदापि न अभवत्। प्रथमवारम् एवं सञ्जातम्। यद्यपि गृहस्य महाद्वारं पिहितम् आसीत् तथापि केनचित् प्रविश्य चोरितम्।

मयि सर्वेषां कोपः। ममापि महान् खेदः। इदानीं सुरक्षा व्यवस्था योजनीया इति सङ्कल्पः कृतः।

साधु च इदम् उच्यते –

अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति।

जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति॥ (पञ्चतन्त्रम्)

3 Comments

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s