भगवद्गीतायां श्रीकृष्णपरमात्मनः अर्जुनम् उद्धिश्य अन्तिमवचनं प्रश्नात्मकम् अस्ति।
भगवान् उवाच
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रणष्टस्ते धनञ्जय ॥ १८.७२ ॥
पदच्छेदः – कच्चित् एतत् श्रुतं पार्थ त्वया एकाग्रेण चेतसा। कच्चित् अज्ञानसंमोहः प्रणष्टः ते धनञ्जय।
अन्वयः – हे पार्थ कच्चित् त्वया एकाग्रेण चेतसा एतत् श्रुतम्। हे धनञ्जय कच्चित् ते अज्ञानसंमोहः प्रणष्टः।
शाङ्करभाष्यम् कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥
संपूर्णोपदेशानन्तरं श्रीकृष्णः अर्जुनं पृच्छति – किं भवान् सर्वमपि एकाग्रतया श्रुतवान्। श्रुत्वा अवगतवान् किम् ? किम् सन्देहाः निवारिताः। किम् इदानीं सर्वं स्पष्टं जातम्।
एवं प्रश्नकरणं भवति अध्यापकस्य लक्षणम्। अध्यापनानन्तरम् अध्यापकः एवं रीत्या पृच्छेत्। अनेन यत् उत्तरं प्राप्यते तेन ज्ञायेत यत् शिष्येण अवगतं वा न इति।
अर्जुन उवाच —
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८.७३ ॥
पदच्छेदः – नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत। स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव।
अन्वयः – हे अच्युत, त्वत् प्रसादात् मोहः नष्टः मया स्मृतिः लब्धा। गतसन्देहः स्थितः अहम् अस्मि। अहं तव वचनं करिष्ये।
शाङ्करभाष्यम् – नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरः । स्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत। अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ ‘अनात्मवित् शोचामि’ (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) ‘तत्र को मोहः कः शोकः एकत्वमनुपश्यतः’ (ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयः । करिष्ये वचनं तव । अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३ ॥
अर्जुनः प्रत्युत्तरं ददाति – हे अच्युत, मोहः नष्टः अपि स्मृतिः लब्धा। मम सर्वे संशयाः परिहृताः। इदानीं तव वचनपरिपालनं कर्तुं सज्जोऽस्मि।
यदि कोऽपि अध्यापकः स्वशिष्यस्य ईदृशानि वाक्यानि शृणुयात् तर्हि सः निश्चये अतीव सन्तुष्टः भवेत्। वयमपि एवमेव कृतार्थाः भवेयुः। इदमेव अस्माकं गुरवे कृतज्ञतासमर्पणम् अस्ति। एतदतिरिच्य किमपि न स्यात्।
शरणागतिप्रपन्नः सन् करिष्ये वचनं तव इति समर्पणभावेन कथनमेव सर्वोत्कृष्टा गुरुदक्षिणा अस्ति।
