अनुवादकः – मनोज्
कदाचित् परीक्षिन्महाराजः तस्य सप्तभिः दिनैः निश्चितमरणप्राप्तिविषयं शुकमहर्षिं निवेदितवान्। ऋषिशापात् महाराजस्य सप्तभिरेव दिनैः प्राणवियोगः निश्चितः आसीत्। किमर्थं सप्तदिनानि अपि वृथा करणीयानि इति विचिन्त्य भगवच्चिन्तनेन अवशिष्टानि दिनानि पवित्रीकरणीयानि इति निश्चितवान्। व्यासमहर्षिम् आमन्त्र्य तस्मात् तत्त्वबोधनश्रवणम् आरब्धवान्। शुकमहर्षिः महान् ब्रह्मचारी आसीत्। तथापि तेन गोपिकानां गुणगणकीर्तनं विस्तरेण कृतम्। अनेन सन्देहप्राप्तः परीक्षिन्महाराजः पृष्टवान् – “स्वामिन्, गोपिकाः अशिक्षिताः अनुपदिष्टाः वेदपुराणशास्त्रेतिहासापठिताः च। तथापि कथं वा ताः गोपिकाः दैवानुग्रहपात्राणि अभवन्। कथं वा भगवान् तासाम् आधीनत्वं गतवान् ?”
महर्षिः समाधानम् एवं कथितवान् – “हे अज्ञ, वेदशास्त्रपुराणेतिहासानां केवलम् अध्ययनेन साक्षात्कारः लभ्यते वा। नैव नैव। वेदाशास्त्रपुराणेतिहासाः भगवत्तत्त्वं वर्णयन्ति किन्तु हृदयपरिपक्वता एव भगवन्तं दर्शयति।

Source: Discourse delivered by Sri Sathya Sai Baba on 23rd June 1996 in Sai Kulwant Hall, Prashanthi Nilayam. (http://archive.sssmediacentre.org/www/ssspeaks/index/clips/?sid=102&aid=29962&cid=2)
अत्र केचन श्लोकाः उदाहृताः।
न साधयति मां योगो न सांख्यं धर्म उद्धव। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥ (भागवतम् – उद्धवगीता – ९ – २०)
भगवान् श्रीकृष्णः भक्तम् उद्धवं प्रति – योगादयः मां साधयितुं न प्रभवन्ति। ऊर्जिता भक्तिः एका एव मां प्रापयितुं प्रभवति इति प्रोवाच।
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपायान्ति ते॥ (भगवद्गीता – १० – १०)
सततं प्रेमपूर्वकं ये मां भजन्ति तेषां मत्प्राप्तिकरं तत्त्वज्ञानम् अहमेव ददामि इति भगवान् प्राह।
अस्मिन् विषये श्रीशङ्कराचार्यविरचितग्रन्थतः विवेकचूडामणितः केचन श्लोकाः उद्धृताः।
पठन्तु शास्त्राणि यजन्तु देवान्कुर्वन्तु कर्माणि भजन्तु देवताः। आत्मैक्यबोधेन विना विमुक्तिर्न सिध्यति ब्रह्मशतान्तरेऽपि।।6।।
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम्। वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये।।60।।
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला। विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला।।61।।
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्। शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु।।271।। (स्व-अध्यास-अपनयनं कुरु। अध्यासः मिथ्याज्ञानम्।)
लोकवासनया जन्तोः शास्त्रवासनयापि च। देहवासनया ज्ञानं यथावन्नैव जायते।।272।। (यथावत् नैव)
वेदशास्त्रपुराणानि भूतानि सकलान्यपि। येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत्।।535।।
एतैः श्लोकैः शास्त्राणां परिमितिः ज्ञायते। शास्त्राणि आवश्यकानि किन्तु परिशुद्धभक्त्या एव सायुज्यप्राप्तिः भवति इति राद्धान्तः।
ये इतोऽपि पठितुम् इच्छन्ति एतत् अवलोकयन्तु – https://sathyasaiwithstudents.blogspot.com/2015/09/the-inner-significance-of-mutual-love.html#.YsQhTHbhXIU