यः निर्गुणः तस्य वर्णनं शक्यं वा। नैव। यस्य गुणाः एव न भवन्ति तस्य वर्णनं कथं वा क्रियेत।
तथापि कविश्रेष्ठाः निर्गुणब्रह्म ज्ञात्वा अनुभूय च यथा लोकाः अवगच्छेयुः तथा वर्णनं कृतवन्तः। यस्य गुणाः न भवन्ति सः गुणातीतः इति उच्यते। तस्य निर्गुणब्रह्मणः गुणातीतत्वं दर्शयितुं ऋषिश्रेष्ठाः किञ्चन रूपं परिकल्प्य जनान् दर्शितवन्तः।
तादृशम् एकं रूपमस्ति यस्य नामधेयं शिवः इति। वस्तुतः शिवः नाम मङ्गलम्। यत्र ईश्वरः तत्र मङ्गलम् एव भवति। अत एव तस्य अपरं नाम शिवः इति।
ईश्वरः गुणातीतः इति उक्तम्। अतः तस्य भीतिः वा प्रीतिः न भवति। शौचम् अशौचम् उत असम्भवम्। तस्य सुखं नास्ति अपि दुःखम्। एतत् सर्वमपि एकस्मिन् एव रूपे चित्रे वा दर्शयितुं सुलभं नास्ति। तथापि भूरि विचिन्त्य सुन्दररूपं परिकल्पितवन्तः। तदेव अस्मिन् श्लोके प्रकटितमस्ति।
भीतिर्नास्ति भुजङ्गपुङ्गवविषात् प्रीतिर्न चन्द्रामृतान् नाशौचं हि कपालदामलुलनाच्छौचं न गंगाजलात्। नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनाद् आत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः।।
- शिवस्य भिन्नाङ्गेषु सर्पाः सन्ति तथापि तेषां विषेभ्यः भीतिः नास्ति।
- शिवस्य शिरसि चन्द्रः राजते तस्मात् अमृतधारा स्रवति तथापि तस्मिन् प्रीतिः नास्ति।
- सः कपालहारं धरति तथापि अशौचं नास्ति।
- यद्यपि गङ्गाजलं तस्य जटातः प्रभवति तथापि अनेन सः न पवित्रीभवति।
- सः स्वसंपूर्णशरीरं चितिभस्मना लिम्पति तथापि न दुःखितः अस्ति।
- गौरीम् आलिङ्गति तथापि न सुखीभवति।
- सः सदा स्वस्थः अस्ति। आत्मनि तिष्ठति। आत्मारामे रमते।
अस्माकं जीवने सुखानि दुःखानि गमनागमनं कुर्वन्ति। तस्मात् वयं सुखिनः दुःखिनः न भवेम। एतत् सर्वमपि गुणानां कार्याणि। यथा शिवः सदा प्रसन्नः सन्तुष्टः सततं योगी तथा एव वयमपि भवेम।
उक्तं किल गीतायाम्।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति।।14.22।।
शिवस्य स्वरूपम् बोधयति यत् – सर्वे समचित्ताः भवेयुः। सर्वे सदासुखिनः भवेयुः। जीवने यत्किमपि भवतु स्वात्मनि स्थित्वा आनन्दमयाः एव भवन्तु।
