तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्।। 1।।
कदाचित् तपस्वी महर्षिः वाल्मीकिः मुनिपुङ्गवं तपसि स्वाध्याये च निरतं वाग्विदां वरं महर्षिं नारदं पृष्टवान्।
किं पृष्टवान् ?
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः।। 2।।
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः।। 3।।
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे।।4।।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्।। 5।।
वाल्मीकिः नारदं पृच्छति – “हे महर्षे अस्मिन् लोके इदानीं कः गुणवान् वीर्यवान् धर्मज्ञः कृतज्ञः सत्यवाक्यः दृढव्रतः चारित्रेण युक्तः सर्वभूतेषु हितः विद्वान् समर्थः एकप्रियदर्शनः आत्मवान् जितक्रोधः द्युतिमान् अनसूयकः च अस्ति। कः अस्ति यस्य जातरोषस्य देवाः संयुगे बिभ्यति। सः ज्ञातुं मम परं कौतूहलं वर्तते। हे नारद महर्षे एवं विधं नरं ज्ञातुं त्वं समर्थः असि।”